________________
46
- (शी०)
श्रीआचा
दंसणनाणचरित्ते चरियाचरिए अदाणलाभे अ। उवभोगभोगवीरिय इंदियविसए य लद्वी य ॥ १५६॥ अध्ययन राङ्गवृत्तिः उवओगजोगअज्झबसाणे वीसुं च लद्धि ओदइया(णं उदया)। अट्टविहोदय लेमा सन्नुमासे कसाए अ १५७
'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः उहशकः६
ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, ॥६८॥
चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्घाणरसनर्देशनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग लब्धीनामुदयाःप्रादुर्भावाः शीरमध्वाम्रवादयः, ज्ञानावरणाद्यन्तरायावसान कर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः-कृष्णादिभेदा अशुभाः शुभाश्च कपाययोगपरिणामविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदाः-अनन्तरोताश्चतस्त्रः क्रोधाद्याश्च चतस्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छासनिःश्वासो प्राणापानौ, कषायाः कषः-संसारस्तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थ गाथामाह__ लक्खणमेवं चेव उ पयरस्स असंखभागमित्ताउ । निक्खमणे य पवेसे एगाईयावि एमेव ॥ १५८॥
तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च बादरतेजस्कायपर्याप्तकेभ्योऽसङ्खयेयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पनत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा ए-| वेति, तथा चागमः-“पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स"। उद्वर्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशःउपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवेति प्रतरस्यासङ्खयेयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक्खमपवेसकालो समयाई इस्थ आवलीभागो। अंतोमुहत्तऽविरहो उदहिसहस्साहिए दोन्नि ॥१५९॥ दारं। ___ जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽस-|
येयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमायिन-अविरहः सात| त्येनावस्थानम् , एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषत्वद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं च त्रसभावेनावतिष्ठते सन्ततमिति ॥ उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह
१ प्रत्युत्पनत्रसकायिकाः कियता कालेन निलेपाः स्युः ?, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन । श्रीआचा- मसाईपरिभोगो सत्थं सत्धाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥ १६० ॥ दारं ॥ 18 अध्ययन राङ्गवृत्तिः हा मांसचर्मकेशरोमनखपिच्छदन्तस्नायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः 'शस्त्रादिक(शी०)
मिति' (शस्त्र) खगतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्न
मनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भवं, ॥६९॥
तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ॥ पुनरप्युपभोगप्रपश्चाभिधित्सयाऽऽह
मंसस्स केइ अट्ठा के चम्मस्स केह रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिजंति ॥१६१ ॥
केई वहंति अट्ठा केह अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहंति मारंति ॥ १६२॥ मांसाथै मृगशूकरादयो वध्यन्ते, चर्मार्थ चित्रकादयः, रोमार्थ मूषिकादयः, पिच्छार्थ मयूरगृद्धकपिशुरुदुकादयः, पुच्छार्थ चमर्यादयः, दन्तार्थं वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यते इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य नन्ति, केचित्तु प्रयोजनमन्तरेणापि क्रीडया नन्ति, तथा परे प्रसङ्गदोपात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्ग:-अनुष्ठानं तत्र प्रसक्ताः-सन्निष्ठाः सन्तस्त्रसकायिकान् बहून् घ्नन्ति रज्ज्वादिना, नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति-18 ॥६९॥ प्राणैर्वियोजयन्तीति ॥ एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह
RAAAAAAXASASRANASACARRORAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org