________________
47
सेसाई दाराइं ताई जाइं हवंति पुढवीए । एवं तसकायंमी निज्जुत्ती कित्तिया एसा ॥ १६३ ॥ उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्रसकाये नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया
संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई (सू०४८) अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्द विनिसृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति' विद्यन्ते त्रस्यन्तीति त्रसाः-प्राणिनो द्वीन्द्रियादयः, ते च कियझेदाः |किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्योपन्यासार्थः, यदिवा 'तत्' प्रकारान्तरमर्थतो यथा भगवताऽभिहितं । तथाऽहं भणामीति, अण्डाजाताः अण्डजाः-पक्षिगृहकोकिलादयः, पोता एवं जायन्ते पोतजाः 'अन्येष्वपि दृश्यते' (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्व वत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाजाता रसजाः-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाजाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाजाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षि
काशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्रवादयः, उपपाताजाता श्रीआचा- उपपातजाः, अथवा उपपाते भवा औपपातिकाः-देवा नारकाच, एवमष्टविधं जन्म यथासम्भव संसारिणो नातिवर्तन्ते, अध्ययन राङ्गवृत्तिः एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं “सम्मूर्छनगर्भोपपाता जन्म" (तत्त्वार्थ०अ० २ सू० ३२) रसस्वेदजोद्भिज्जानां | (शी०) || सम्मूर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामौपपातिकान्तःपातित्वात् |
उद्देशका ॥ इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निप॥७ ॥
तन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते सानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति-'एस संसारोत्ति पवुञ्चति' एषः-अण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुसत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह
मंदस्सावियाणओ (सू० ४९) मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बालः कुशास्त्रवा|| सितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतो-हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह
॥७०॥ निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि, तसंति
पाणा पदिसो दिसासु य (सू० ५०) एवमिमं त्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निाय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वात् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्व च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-'पडिलेहेत्त'त्ति प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति-'प्रत्येक'मित्येकमेकं त्रसकार्य प्रति परिनिर्वाणसुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां-प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छनजौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषां सत्त्वानां-पृथिव्यायेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्कं च-'प्राणा द्वित्रिचतुःप्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥ १ ॥” इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणास्राणाः कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येक परिनिर्वाणं-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org