________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ ५८ ॥
39
तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्त्तिस्तथा प्रत्येकतरुशर (रसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिताः जीवाः, पश्चिमार्जेन गाथाया उपन्यस्तदृष्टान्तेन सह | साम्यं प्रतिपादितं तथेति शब्दोपादानादिति ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह
जह वा तिलसकुलिया बहुएहिं तिलेहिं मेलिया संती । पत्तेयसंरीराणं तह हुंति सरीरसंघाया ॥ १३२ ॥ यथा वा तिलशष्कुलिका - तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेका नेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह
नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥ १३३ ॥ नानाविधं - भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पत्या पज्जत्ता सेढीऍ असंखभागमित्ता ते । लोगासंखप्पज्जतगाण साहारणाणता ॥ १३४ ॥ प्रत्येकतरुजीवाः पर्याप्तकाः संवर्त्तितचतुरस्रीकृत लोकश्रेण्यसंख्येयभागवत्त्र्त्या काशप्रदेशराशितुल्यप्रमाणाः, एते च पुनबोंदरतेजस्कायपर्याप्तकरा शेरसङ्घयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्ख्यंयानां लोकानां यावन्तः प्रदेशास्तावन्त इति एतेऽप्यपर्याष्टका बादरतेजस्काय जीवराशेरसङ्घयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पयतका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्या| तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-- साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याष्टकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणास्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असङ्घचेयगुणा इति ॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया निर्युक्तिकृदाहएएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥ १३५ ॥ 'एतैः ' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्ष' साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः ' प्रसाधिताः, तथाहि न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाजि भवन्ति, तथा च प्रयोगः - जीवशरीराणि वृक्षाः, अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातव| देव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् — “वृक्षादयोऽक्षाद्युपलब्धिभावात्साण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥ १ ॥” 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति ॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह
साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥ १३६ ॥ समानम् एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानां जीवानां 'साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति - एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्रसिते निःश्वसिते वा सर्वेऽप्युच्छ्रसिता निःश्वसिता वेति ॥ अमुमेवार्थ स्पष्टयितुमाह
एगस्स उ जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥ १३७ ॥ एको यदुच्छ्रासनिःश्वासयोग्यपुद्गलोपादानं विधत्ते बहनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो | ग्रहणमकार्षुरेकस्यापि तदेवेति ॥ अथ ये बीजात्मरोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह
जोणिग्भूए बीए जीवो वकमह सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए । १३८ ॥ अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था -योन्यवस्था अयोन्यवस्था च यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोपद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथम
Jain Education International
For Private Personal Use Only
अध्ययनं १ उद्देशक:५
।। ५८ ।।
www.jainelibrary.org