________________
38
५. ०
८
--
---
-
श्रीआचा- कायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातक- अध्ययन १ तिम्र्मेति ब्रवीमीति पूर्ववत् । इति शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता ॥
उद्देशकः५ (शी)
___ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, १५६ ॥
तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये कमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वादुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावअतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह
पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १२६॥ यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पती द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिपिनायाह
जा॥५६॥ दुविह वणस्सइजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥१२७॥
वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्ग्राह्याश्च न भवन्त्येकाकारा एव, वादराणां पुनढे | विधाने ॥ के पुनस्ते बादरविधाने इत्यत आह
पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छविहा हुंति ॥१२८ ॥ बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाच, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतव्याः॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहरुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२॥ | वृश्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिकाः-पिचुमन्दाम्रकोशम्बशालाङ्कोलपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्यस्तु-कुप्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः । तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरलाकेतकीकदलीक
१ शतपत्री. प्र. २ वर्चका. प्र. श्रीआचा- न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधू- अध्ययनं१ राङ्गवृत्तिः मयवकलममसूरतिलमुद्रमापनिष्पावकुलत्थातसीकुसुम्भकोद्रवकनवादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावक(शी०) कशेरुकउसलपमकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोदेहलिकाशलाकास
उद्देशकः५ पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गबेरैमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ॥ 'सर्वेऽप्येते संक्षेपात् पोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा 31 इत्याह
अग्गषीया मूलबीया खंधषीया चेव पोरवीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३०॥ | तत्र कोरिण्टकादयोऽप्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लकवरणिकादयः स्कन्धबीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिनीह्यादयः, सम्मूर्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आह
जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हंति सरीरसंघाया ॥ १३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्पपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वर्तिः |॥ ५७॥ १०त्रिलरी. प्र. २०पावाक• प्र. ३ कुहणेति नि. ४ रा.प्र.
AAKA4%AMRAPAL.4%
AAAAAA%%
%%%%SESS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org