________________
७६
सटीक मूलशुद्धिप्रकरणम् देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा। 'तीय वि रूवसमिद्धी, रूवे वि बलं पहाणयरं ॥ ८७ ॥ होइ बले वि य जीयं, जीए वि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती ।। ८८॥ सीले खाइयभावो, खाइयभावे वि केवलं जाणं ।
केवलिए पडिउण्णे पत्ते परमक्खरे मोक्खो॥ ८९॥ (प० व० गा० १५६-१५९) [?'लणं' ति, 'लब्ध्वा ' प्राप्य । ] 'अल पुवं' ति अलब्धपूर्वम् अप्राप्तप्रथमम् । तथा हि
अट्टविहकम्मतलसीसस इसरिसस्स मोहणिजस्स। उदहीसँरिणामाणं इगुहत्तरिकोडिकोडीओ ॥९० ॥ जइया जिएहि खवियाओँ होंति करणेणऽहापवत्तेण ।
तइया अउव्वकरणं काउं पाति सम्मत्तं ॥ ९१ ॥ 'जिणाणं'ति जिनानां मोहमहाराजनिर्मूलोन्मूलनावाप्तजयपताकानाम् । 'आणाए'त्ति आज्ञायां तदादेशलक्षणायाम् । 'प्रवर्तितव्यं' प्रवृत्तिर्विधेया । किमविशेषेण ? नेत्याह-'विसेसओ' विशेषतः तदन्यसमधिकतया । 'सत्तसु'त्ति सप्तसु-सप्तसङ्ख्येषु, स्थानकेषु पात्रविशेषेषु बिम्बादिष्विति वृत्तार्थः ॥ १६ ॥ इदानीं सप्त स्थानकान्येव नामतः प्रतिपादयंस्तत्कृत्यादेशं वृत्तेनाऽऽह
बिंबाण चेईहर-पुत्थयाणं, जिणाण साहूण य संजईणं ।
आणारुईसावय सावियाणं, समायरेजा उचियं तमेयं ॥ १७ ॥ 'बिंबाणं'ति (ण'त्ति ) बिम्बानां प्रतिकृतीनाम् । तथा 'चेईहराणंति चैत्यगृहाणां बिम्बाधारभवनानाम्। तथा 'पुत्थयाणं'ति पुस्तकानां-पत्रसञ्चयलिखितागमानाम् । 'जिणाणं'ति(ण'त्ति ) जिनसम्बन्धिनाम् । अग्रेतनपदचकारस्यावधारणार्थस्यात्र सम्बन्धात् , तेन जिनानामेव सम्बन्धीनि यानि बिम्ब-चैत्यगृह-पुस्तकानि, न शाक्यादिसत्कानि। तथा 'साहूण'त्ति साधूनां सक्रियादिगुणान्वितयतीनाम् , यत एवंगुणा एव साधवो भवन्ति । उक्तं च
यः सत्क्रियाप्रवृत्तः सज्ज्ञानी निस्पृहः क्षमासहितः।
धर्मध्यानाभिरतश्च साधुरिति कथ्यते सद्भिः॥ ९२ ॥ तथा 'संजईणं'ति संयतीनां साधुगुणोपेतसाध्वीनाम् । तथा 'आणारुईसावय'त्ति विभक्तिलोपाद् आज्ञारुचिश्रावकाणाम् । आज्ञा भगवदादेशस्तस्यां रुचिः श्रद्धा येषां ते आज्ञारुचयः; शृण्वन्ति यतिमुखात् साधु-श्रावकसामाचारीमिति श्रावकाः । उक्तं च
संपत्तदंसणाई पइदियह जइजणा सुणेई इ ।
सामायारिं परमं जो खलु तं सावगं बेंति ॥ ९३ ॥ आज्ञारुचयश्च ते श्रावकाश्च-उपासका आज्ञारुचिश्रावकास्तेषाम् । तथा 'सावियाणं ति श्राविकाणां= पूर्वोक्तगुणयुक्तोपासिकानाम् । 'समायरेज्ज'त्ति समाचरेत् कुर्यात् । 'उचिय'ति उचितं सप्तस्थानकयथायोग्य कृत्यम् । तमेयंति तदेतद् वक्ष्यमाणं कृत्यमिति वृत्तार्थः ॥ १७॥ _ 'यथोदेशं तथा निर्देशः' इति न्यायमाश्रित्य बिम्बानामुचितं यत् प्राग् विधेयतयोक्तं तद् वृत्तद्वयेन प्रतिपादयति
1 A B तीए रू। 2 0D य । 30D डिपुण्णे। 4 C D °द्धउध्वं । 5A B°सरणा। 60D °कोडको । 7A B°या होंती कर। 8A B °शेषेणेत्याह। 9 C D E पोत्थयाण। 10 C D क्षमादियुतः। 11 A B यस्स' त्ति । 1200°योग्यकृत्यम् । 13A B तमेवं तदे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org