________________
सम्यक्त्वमाहात्म्यादि तथा 'पासायपीढं व दढावगाढंति प्रसीदन्ति नयन-मनांसि यत्रासौ प्रासादः देवकुलम् , तस्य पीठं= गर्त्तापूरकः, दृढम् अत्यर्थमवगाढम्-आजलान्तभूतलावमग्नम् , तदिव । तथा हि
आनीरान्तमहीतलगतगर्तापूरको दृढो यद्वत् ।।
प्रासादो धर्मोऽपि च तद्वत् सम्यक्त्वसंयुक्तः ॥ ७९ ॥ तथा 'आहारभूयं धरणी व लोए'त्ति आधारः-आश्रयस्तद्भूतं तत्तुल्यम् , धरणिरिव=भूमिवत् । कस्य ? षष्ठयर्थे सप्तम्याः प्रयुक्तत्वाद् लोके-लोकस्य जगतः । तथा हि
जह पुहईतलमेयं समत्थलोयस्स होइ आहारो।
तह सम्मदंसणं पि य आहारो होइ धम्मस्स ॥ ८०॥ तथा 'पहाणदव्वाण य भायणं वत्ति प्रधानानि अवराणि, तानि च तानि द्रव्याणि च क्षीरादीनि अतस्तेषाम् । चकारः समुच्चये । भाजनं कुण्डादि तद्वत्-तदिव । तथा च
कुण्डादिभाजनविशेषविवर्जितस्तु, निःशेषवस्तुनिचयो व्रजति प्रणाशम् ।
यद्वत् तथा विविधधर्मविशेषराशिः, सद्दर्शनप्रवरभाजनविप्रहीणः ॥ ८१॥ तथा 'माणिक-णाणामणिमाइ-मुँत्ता-सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व महाणिहाणं'ति माणिक्यानि महामौक्तिकानि, नाना=अनेकप्रकारा मण्यादयः चन्द्रकान्ताद्याः, आदिशब्दाद् हीरकादिग्रहः, मुक्ताः मौक्तिकानि, शिलाः-स्फटिकोपलाः, प्रवालानि=विद्रुमाणि, अमललोहिताक्षाणि निर्मलरक्तरत्नानि, सुवर्ण= काञ्चनम् , माणिक्यानि च नानामणयश्चेत्यादिद्वन्द्वः, तैः पूर्ण भृतं महानिधानवत् तद्ब्रहद्भाजनमिव । तथा हि
जह बहुविहमाणिक्काइदव्वपरिपूरियं महणिहाणं । संसारिअणेयसुहाण कारणं होइ जीवस्स ॥ ८२ ॥ तह बहुविहधम्मविसेससंजुयं सम्मदरिसणमिमं पि ।
अचंतियनिरुवममोक्खसोक्खसंसाहगं होइ ।। ८३ ॥ इति वृत्तद्वयार्थः ॥ १४-१५ ॥ एतच्चेदृग्विधं महाप्रभावमत्यन्तदुःप्रापं चावाप्य यद्विधेयं तदाह
एवं महापुण्णफलं सहावसुद्धीऍ लडूण अलहपुत्वं । जिणाणमाणाएँ पयट्टियवं, विसेसओ सत्तसु ठाणएसु ॥ १६ ॥ 'एय'ति एतत् पूर्वोक्तम् । 'महापुण्णफलं'ति महापुण्यफलं बृहच्छुभसञ्चयकार्यम् । यतः
बहुभवकोडीविरइयकम्ममहासेलदलणवरकुलिसं । पाविजइ सम्मत्तं उवजिए पुण्णसंघाए ॥ ८४ ॥ मोक्खमहातरुणिरुवयबीयभूयं विसुद्धसम्मत्तं ।।
जं लब्भइ जीवेहिं तं बहुविहपुण्णमाहप्पं ॥ ८५ ॥ 'सहावसुद्धीए'त्ति स्वभावशुद्ध्या अकामनिर्जरादिकर्मक्षयावाप्तपञ्चदशाङ्गीक्रमलक्षणया । उक्तं च
भूएसु जंगमत्तं, तेसु वि पंचेंदियत्तमुक्कोसं ।
तत्तो वि य माणुस्सं, माणुस्से आरिओ देसो ॥ ८६ ॥ 1A B मनांसीति प्रासा। 2A B प्रस्तुतत्वाद् । 3D °नि चैतानि। 4 CD °मुत्त-सि। 5A B यक्खा-सु। 60D °सारियणेय। 70D सम्मदंसणमिमं। 80Dसुद्धी ल°, E'सुद्धीय ल। 90D °कं महापुण्य। 100 Dण्णपब्भारे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org