________________
सटीक मूलशुद्धिप्रकरणम् सम्यक्त्वस्थानकमभिहितम् । 'कुणइ'त्ति, 'करोति' विदधाति शुभा-ऽशुभानीति सम्बध्यते, एवमेव युक्तियुक्तत्वाद्, अन्यकर्तृकत्वे तु कृतनाशा-ऽकृताभ्यागमादिदोषप्रसङ्गाद् । अनेन तु कपिलमततिरस्करणात् तृतीयं दर्शनस्थानकमुक्तम् । 'कयाइं सयाई वेएइ सुहा-ऽसुहाईति 'कृतानि' निर्वर्तितानि । 'खकानि' आत्मीयानि । 'वेदयति' अनुभवति । जीव इति गम्यते । 'शुभा-ऽशुभानि' पुण्य-पापानि, 'सुखा-ऽसुखानि' वा पुण्य-पापफलजन्यशर्मा-ऽशर्माणि । एतच्चाकर्ता जीव इति दुर्णयनिरासात् चतुर्थं सम्यक्त्वस्थानकम् । 'निव्वाणमस्थि' त्ति, 'निर्वाणं' मोक्षः सकलकर्मनिर्मुक्तजीवावस्थानमिति भावः । 'अत्थि' त्ति, 'अस्ति' विद्यते तत्प्रतिपादकागमप्रमाणसद्भावात् । अनेन च,
दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काश्चिदथ क्षयात् केवलमेति शान्तिम् ॥ ७४ ॥ जीवस्तथा नितिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न काश्चिद्विदिशं न काश्चित् , क्लेशक्षयात् केवलमेति शान्तिम् ।। ७५॥ इति सर्वाभावप्रतिपादकमोक्षपरदुर्णयनिरासः कृतो भवतीति पञ्चमं दर्शनस्थानकम् । 'तह तस्सुवाओ'त्ति तथा तस्योपायः, तस्य–मोक्षस्योपायः तत्प्राप्तिलक्षणः सम्यग्दर्शनादिकः सन्मार्ग इति भावः, “सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः (तत्त्वा० अ० १ सू० १)" इति वचनात् । अनेन च मोक्षोपायाभावप्रतिपादकदुर्णयनिरासः कृतो भव[ ? ती ति षष्ठं सम्यक्त्वस्थानकम् । 'सम्मत्तठाणाईति सम्यक्त्वस्थानानि-दर्शनावस्थानानि, सम्यक्त्वमेतेषु सत्स्लेव भवतीति भावः । 'जिणाहियाईति जिनाहितानि तीर्थकरप्रतिपादितानीति वृत्तार्थः ॥ १३ ॥
भूषणादीनि प्रतिपाद्य तस्यैव माहात्म्यख्यापकं वृत्तद्वयमाहमूलं इमं धम्ममहादुमस्स, दारं सुपायारमहापुरस्स । पासायपीढं व दढावगाढं, आहारभूयं धरणी व लोए ॥ १४ ॥ पहाणदव्वाण य भायणं व, माणिक-णाणामणिमाइ-मुत्ता-। सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व महाणिहाणं ॥ १५ ॥
'मूलं'ति, मूलमिव मूलं कन्दोऽधोवति । 'इम' एतत् सम्यक्त्वम् । 'धम्ममहादुमस्स'त्ति धर्म एव महाद्रुमः प्रधानतरुधर्ममहाद्रुमस्तस्य । तथा च
पाडेजइ वायाईहिँ जह उ अनिबद्धमूलओ रुक्खो। तह सम्मत्तविहीणो धम्मतरू नो दढो होइ ॥ ७६ ॥ जह सो च्चिय दूरंगयमूलो सच्छायओ दढो होइ ।
तह धम्मतरू वि दढो जायइ सम्मत्तसंजुत्तो ॥ ७७ ॥ 'दारंति द्वारमिव द्वारं मुखं प्रतोलीति यावत् । 'सुपायारमहापुरस्स'त्ति सुष्ठु-शोभनः प्राकारः शालो यत्र तत् सुप्राकारम् , महच्च तद् बृहत् , पुरं च नगरं महापुरम् , सुप्राकारं च तन्महापुरं च सुप्राकारमहापुरमतस्तस्य । तथा हि
जह दाररहियणयरं ण किंचि णयरप्पओयणं कुणइ ।
सम्मत्तदारवियलं तह धम्मउरं पि विण्णेयं ॥ ७८ ॥ TA B नमभि। 2A B °दक आग। 3-40 D°वनीं। 50D ख्यापनं। 6A B धरणी व । 70 D'मुत्त, Eमोत्ता। 8 A B °यक्खा। 90 D°तो ॥ इति भावना । 'दारं'ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org