________________
जिनप्रतिमावर्णना
[ जिनबिम्बाख्यं प्रथमं स्थानकम् ] 'वज्र्जेदनीलं -ऽजण-चंदकंत-रिट्ठ-क-कक्केयण-विद्दुमाणं । सुवण्ण-रुप्पा-ऽमलफालियाण, साराण दव्वाण समुब्भवाओ ॥ १८ ॥ महंतभामंडलमंडियाओ, संताओं कंताओं मणोहराओ ।
भव्वाण णिव्वाणणिबंधणाओ, णिम्मावएज्जा पडिमा वराओ ॥ १९॥
‘वैज्ज'त्ति वज्राणि=सर्वरत्नप्रधानानि हीरका इत्यर्थः । ' इंदनील 'त्ति इन्द्रनीलानि = नीलवर्णमहारत्नानि । ‘अंजण’त्ति कज्जलरुचिरत्नानि । 'चंदकंत 'त्ति चन्द्रकान्ताः रजनिकरकरनिकरसंसर्गनीरक्षरणखभावा मणयः । ‘रिट्ठ'त्ति रिष्टानि=कृष्णरत्नानि । 'अंक'त्ति अङ्काः = शुभ्ररत्नविशेषाः । 'कक्केयण' त्ति कर्केतकानि = पीतरत्नानि । 'विदुम' त्तिविद्रुमाण = प्रवालकानि । वज्राणि चेन्द्रनीलानि चेत्यादिद्वन्द्वस्तेषां सम्बन्धिनीः । तथा 'सुवण' त्ति सुवर्ण = काञ्चनम् । 'रुप्प'त्ति रूप्यं - रजतम् । 'अमलफालिय'त्ति अमलस्फटिका: निर्मलार्कोपलाः । सुवर्णं च रूप्यं चामलस्फटिकाश्च सुवर्ण-रूप्या-Sमलस्फटिकाः, तेषां सम्बन्धिनीः । तथान्येषामपि ‘साराणं'ति साराणाम्= उत्तमानाम् । ‘दव्वाणं'ति द्रव्याणां = वस्तूनाम् । 'समुब्भवाओ'त्ति समुद्भवाः = तत्समुत्था: । 'महंत भामंडल - मंडियाओ'त्ति महच्च तद् = विशालं भामण्डलं च = प्रभाचक्रवालम्, तेन मण्डिताः - शोभिता महाभामण्डलमण्डिताः । 'संताउ'त्ति शान्ताः = राग-द्वेषादिसंसूचकरमणी-प्रहरणादिचिह्नरहितत्वेन प्रशान्ताकृतयः । ' कंताउ'त्ति कान्ताः=दीप्तिमतीः । ‘मणोहराओ' त्ति मनोहराः = चित्तानन्ददायिनी । ' भव्वाणं'ति भव्यानां = मुक्तिगमनयोग्यानाम् । 'णिव्वाणणिबंधणाओ'त्ति निर्वाणनिबन्धनाः = मोक्षहेतुभूताः, विशिष्ट भावोल्लासहेतुभूतत्वेन कर्मक्षयकारका इति भावः । उक्तं च
पासाईया पडिमा लक्खणजुत्ता समत्तऽलंकरणा ।
जह पल्हाए मणं तह णिजर मो वियाणाहि ॥ ९४ ॥ दहूण मणभिरामं पसंतबिंबं जिणस्स भव्वजिया । आणंदपूरियंगा हवंति सिहिणो व्व घणसमए ॥ ९५ ॥
'निम्मापए 'त्ति निर्मापयेद् = विधापयेत् । 'पडिम'त्ति प्रतिमा : = प्रतिकृतीः । ' पराउ 'त्ति पराः = प्रधानाः । इतिवृत्तद्वयार्थः ॥ १८-१९ ॥
केषां सम्बन्धिनीः प्रतिमाः ? इत्याह
७७
जिंद चंदाण नरेंद चंद नागेंद- देवेंदऽभिवंदियाणं ।
इति वृत्तार्द्धम् । 'जिणेंदचंदाण' त्ति जिनेन्द्रचन्द्राणाम्, जिना: - अवधिजिनादय:, तेषामिन्द्रा :- खामिनः सामान्यकेवलिनः, तेषां चन्द्रा इव चन्द्रा जिनेन्द्रचन्द्राः - तीर्थकृतः, तेषां प्रतिमा निर्मापयेदिति सण्टङ्कः । कथम्भूतानां तेषाम् ? अत आह— ' नरेंद - चंद- नागेंद - देवेंदऽभिवंदियाणं'ति नरेन्द्राः = चक्रवर्त्त्यादयः, चन्द्रा:= ज्योतिष्केन्द्राः, नागेन्द्राः - भवनपैतिविशेषनायकाः शेषभवन पतीन्द्रोपलक्षणमेतत्, देवेन्द्राः=त्रिदशपतयः, नरेन्द्राश्च चन्द्राश्चेत्यादिद्वन्द्वः, तैरभिवन्दिताः नमस्कृता ये ते तथा [ ? तेषाम् ] । उक्तं च
10 D जिंद 2 संता य कंता य मणो । BAB ' वज्जं 'ति । 4 A B सम्बन्धीनि । 50D रूपं । 6 A B स्फाटिका । 7CD रूपं । SODE | 9 जिणिदयंदाण, OD जिनिंद | 10 C D याणं ति वृत्ता । 11 AB न्द्राः सामा° । 12 B पतीन्द्रोप, A पुस्तके पाठभ्रंशः । 13AB°ता येते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org