________________
सटीक मूलशुद्धिप्रकरणम् सिद्धान्तः सर्वविद्वचनम् , तस्य सारान् सूक्ष्मपदार्थरूपान् ‘निशमयन्तः शृण्वन्तः 'सम्यग्' अवैपरीत्येन विनयादिक्रमरूपेण । यतो विनयवत एव यथावस्थितार्थश्रुतलाभो भवति, न दुर्विनीतस्य । उक्तं च
विणयण्णियस्स मुणिणो दिति सुयं सूरिणो किमच्छरं ? । को वा ण देइ भिक्खं अहवा सोवण्णिए थाले ? ॥९ सेहम्मि दुग्विणीए विणयविहाणं ण किंचि आइक्खे ।
न वि दिजइ आभरणं पंलियत्तियकण्ण-हत्थस्स ॥ १० 'सकाशे' पार्श्व । 'मुनिपुङ्गवानां' प्रवचनैधरसूरीणाम् , 'प्राप्नुवन्ति' लभन्ते, कल्याणं शुभं तस्य परम्पराः उत्तरोत्तरशुभसन्ततिरूपाः । उक्तं च
मोहं धियो हरति कापथमुच्छिनत्ति,
संवेगमुन्नमयति प्रशमं तनोति । सूतेऽनुरागमतुलं मुदमादधाति,
जैनं वचः श्रवणतः किमु यन्न दत्ते ॥ ११ ततश्च गुणान् ज्ञानादिकान् क्षान्त्यादिकांश्च धारयन्ति=बिभ्रति गुणधरा भवन्ति–जायन्ते । अनुस्वारः पूर्ववत् । गुणधराश्च भूत्वा 'वजन्ति' गच्छन्ति सिद्धिं मुक्तिमिति वृत्तार्थः ॥ ३॥
सम्यग्दर्शनलाभस्योपायमभिधायाधुना तत्प्रतिपत्तिक्रमं श्लोकेनाऽऽहसमणोवासगो तत्थ, मिच्छत्ताओ पडिक्कमे ।
दव्वओ भावओ पुट्वि, सम्मत्तं पडिवज्जइ ॥ ४ ॥ श्राम्यन्तीति श्रमणाः साधवस्तेषामुपासकः-सेवकः श्रमणोपासकः। तथा च
भत्तिभरनिब्भरंगो सुयधम्मत्थी तिकालमणुदियहं ।
जो पजुवासइ जई तं समणोवासगं वेति ॥ १२ तत्रशब्द उत्क्षेपार्थः । मिथ्यात्वम् अदेवादिषु देवत्वादिप्रतिपत्तिरूपम् । तथा च
अदेवासाध्वतत्त्वेषु यद्देवत्वादिरोचनम् ।
विपरीतमतित्वेन तन्मिथ्यात्वं निगद्यते ॥ १३ _ 'प्रतिक्रामति' प्रतीपं गच्छति । 'द्रव्यतः' बाह्यवृत्त्या तत्कृत्यपरित्यागेन । 'भावतः' अन्तःकरणवृत्त्या तत्प्रतिपत्तिपरिहारेण । 'पूर्व' प्रथमं सम्यक्त्वा-त्, ततश्च सम्यक्त्वं मिथ्यात्वविपरीतं 'प्रतिपद्यते' अङ्गीकरोति । यद्वा काकाक्षिगोलकन्यायेन द्रव्यतो भावतः । पूर्वमित्युभयत्र सम्बध्यते । तेन द्रव्यतश्चैत्यवन्दना" -दिकृत्यकरणतः, भावतोऽनन्यचेतोवृत्त्या पूर्वमणुव्रतप्रतिपत्तेः सम्यक्त्वं प्रतिपद्यत इति श्लोकार्थः ॥ ४ ॥
प्रतिपन्नसम्यक्त्वस्य च यद् यद् न कल्पते तत् तद् वृत्तद्वयेनाऽऽह
न कप्पए से परतित्थियाणं, तहेव तेसिं चिय देवयाणं ।
परिग्गहे ताण य चेइयाणं, पभावणा-वंदण-पूर्यणाइं ॥ ५॥ - 1 A B °र्थस्वरूपलाभो । 2 A B °यण्णुयस्स। 3 परिकर्तितकर्णहस्तस्य । 4 A B °नवरसू। 5 A B धत्ते । 6नीया लोवा इत्यादिना प्रथमगाथाटीकायां निदर्शितेन प्रमाणेन 'गुणंधरा' इत्येतत् सिद्धं ज्ञेयम् । 7 0D °वासओ। 8 F पुव्वं । 9 A B °याति । 10 A B तत्प्रवृत्तिपरिहा। 11-11-एतचिह्नान्तर्वर्ती पाठः C D प्रत्योरेवेति विज्ञेयम् । 12 C D °णाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org