________________
गुरुपदेशवर्णनम्
३
सर्वज्ञत्वेनाव्यतिरेकात् । सत्यम्, किन्तु श्रुत - सामान्यावधि ऋजुमतिमनः पर्यायज्ञानिजिनापेक्षया परमावधिविपुलमतिमनःपैर्यायज्ञानिजिनानामिन्द्रत्वाद् मा भूत् तेष्वपि सम्प्रत्यय इति सर्वज्ञपदोपादानमिति स्थितम् । एवमन्यत्रापि चालना प्रत्यवस्थाने अभ्यू ।
अत्र च वन्दामीत्यादिनमस्कारकरणस्य पापपङ्कप्रक्षालकत्वेन मङ्गलत्वाद्, मङ्गलस्य च विघ्नविनाशकत्वाद् विघ्नापोहमाह । प्रयोजनं चैहिकमामुष्मिकं च । तदपि श्रोतुः कर्तुश्च । तत्रैहिकं श्रोतुः शास्त्रावगमः, 1 कर्तुश्च सत्त्वानुग्रहः, पारत्रिकमुभयोरपि स्वर्गापवर्गप्राप्तिः, तदत्र नन्दन्तीत्यनेन प्रतिपादितं द्रष्टव्यम् । अभिधेयं पुनरस्य प्रकरणस्य सम्यक्त्वशुद्ध्यादि, तच्चाभिनन्दयन्त इति, अनेनाऽऽगमस्य च विघ्नविनायकत्वाद् विघ्नाश्रद्धानविषयताम्, कुर्वन्तश्चानेन तदुक्तानुष्ठानकरणं च दर्शयतोक्तं भवति । सम्बन्धश्चास्य शास्त्रस्य वचनरूपापन्नस्योपायत्वाद् दर्शनशुद्ध्यादेश्चोपेयत्वादित्युपायोपेयलक्षणः, सामर्थ्यादेवोक्तो दृश्य इति प्रथमवृत्तार्थः ॥ १ ॥
यामभिनन्दयन्त इत्यनेन सम्यक्त्वशुद्धयादि भणिष्यामीति सूचितम्, तच्च सम्यक्त्वं निसर्गादधिगमाच्च भवति । तत्र निसर्गलाभो बहलमिध्यात्वमलपटलान्तरितत्वाद् दुःषमालोकानां दुर्लभः, गुरूपदेशाच्च साम्प्रतं प्राय उपलभ्यत इति गुरूपदेशमेव तावदादावेवाऽऽह
जिणाण धम्मं मणसा मुणेत्ता, सो चेव वायाऍ पभासियव्वो । कारण सो चेव य फासियव्वो, एसोवएसो पयडो गुरूणं ॥ २ ॥ जिनाः=रागाद्यरातिजयवन्तः, तेषां सम्बन्धिनं 'धर्मं ' श्रुत- चारित्राख्यम् । तत्र दुर्गतिप्रपतदङ्गिगणधरणात् सुगतौ च धारणाद् धर्मः । उक्तं च
दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः
८
अतस्तं 'मनसा' अन्तःकरणेन 'मत्वा' ज्ञात्वा स चैव 'वाचा' वचनेन 'प्रभाषितव्यः' अत्यर्थ भणनीयोऽन्येषां पुरत इति शेषः । तच्छन्दः पूर्वप्रक्रान्तधर्मवाची । एवशब्दोऽवधारणे, स चैवमवधारयति - जिनधर्म एव भणनीयः, न शाक्यादिसम्बन्धी । यत उक्तं परमगुरुभिः श्रावकवर्णके
एस णं देवाणुपिया ! निग्गंथे पावयणे अट्ठे, अयं परमट्ठे, सेसे अणट्टे । इति ।
अनेन च श्रुतधर्ममाह, तस्य वाग्गोचरत्वात् । 'कारण' शरीरेण से चैव च ' स्पर्शनीयः' अनुचरणीयः । अत्रापि तच्छब्दः पूर्ववत् । 'चः' समुच्चये, स च भिन्नक्रमे स्पष्टव्यश्चेत्यत्र द्रष्टव्यः । 'एव' अवधारणे, अनेन तु चारित्रधर्ममाह, तस्य हि क्रियारूपत्वात् । द्वितीयश्चकारश्चानुक्तसमुच्चये । स चेत् समुच्चिनोति—– आदावागमश्रवणम्, श्रवणानन्तरं च मननम्, तदनन्तरं च शेषाणीति । 'एषः' अनन्तरोक्तः 'उपदेश:' अनुशासनं 'प्रकट : ' प्रसिद्धो 'गुरूणां ' यथावस्थितशास्त्रार्थप्ररूपकाणां सम्बन्धीति वृत्तार्थः ॥ २ ॥
आदावागमश्रवणं विधेयमित्युक्तं तस्य च महाकल्याणकारकत्वमाह
सिद्धंतसाराइँ निसामयंता, सम्मं संगासे मुणिपुंगवाणं । पावेंति कल्लाणपरंपराओ, गुणंधरा हुंति वयंति सिद्धिं ॥ ३ ॥
1 B 'ज्ञान' । 2 A B पर्याय । 3AB °स्य श्रद्धानविष° । 6 A B स एव। 7 A B द्रष्टव्यश्चे । 80 चैवं समु° | 9 CD सयासे ।
For Private & Personal Use Only
Jain Education International
4 CD दादावाह ।
50D कायेन ।
www.jainelibrary.org