________________
सटीक मूलशुद्धिप्रकरणम् व्याख्या-सा च संहितादिक्रमेण भवति । यत उक्तम् -
समुदितपदामादौ विद्वान् पदेष्विह संहितां,
तदनु च पदं तस्यैवार्थ वदेदथ विग्रहम् । निपुणभणितं तस्याऽऽक्षेप तथाऽस्य च निर्णय,
बुधजनमता सूत्रव्याख्या भवेदिति षड्विधा ॥ ५ तत्राऽस्खलितपदोच्चारणमेव संहिता । वन्दे सर्वज्ञ जिन इन्द्र वाणीमित्यादीनि तु पदानि । पदार्थः पुनः 'वन्दे' स्तुवे । कम् ? 'सर्वज्ञजिनेद्रवाणी' सर्व समस्तं ख-परपर्यायभेदभिन्नं पदार्थसार्थं जानाति बुध्यत इति सर्वज्ञः= निखिलवेदी, रागादिशत्रुजेतृत्वाद् जिनाः सामान्यकेवलिनः, तेषाम् इन्दनाद् अष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तत्वाद् इन्द्रः नायको जिनेन्द्रः तीर्थकृत् , सर्वज्ञश्चाऽसौ जिनेन्द्रश्च सर्वज्ञजिनेन्द्रः, तस्य वाणी-वाक्, अङ्गा-ऽनङ्गादिभेदभिन्ना, ताम् । कथम्भूताम् ? 'प्रसन्नगम्भीरप्रशस्तशास्त्रां' प्रसन्नानि प्रत्यायकानि सुखावबोधानीत्यर्थः, गम्भीराणि दृष्टजीवाऽजीवादिगम्भीरपदार्थत्वात् परैरलब्धमध्यानि, प्रशस्तानि-मङ्गल्यानि हिंसादिनिवारकत्वात्, शास्त्राणि ग्रन्था यस्याः सा तथा ताम् । यद्वा प्रसन्नः जितक्रोधादित्वेनोत्तमोपशमरैसवान् , गम्भीरः श्रुतकेवलित्वात् परैरलब्धमध्यः, प्रशस्तः=निःशेषमङ्गलालयत्वात् ; शास्ता प्ररूपकः सूत्ररूपतया गणधरो यस्याः सा प्रसन्नगम्भीरप्रशस्तशास्तृका, ताम् । पुनरपि कथम्भूताम् ? 'युक्तियुतां' युक्त्या-उपपत्त्या युता–समेता युक्तियुता, न तु पुराणादिवदाज्ञासिद्धैव । उक्तं च तद्वेदिभिः
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि युक्तिभिः ॥ ६ एतच्च प्रतिपादयद्भिस्तैस्तेषां युक्तिपरीक्षणाक्षमत्वमावेदितं भवति । उक्तं च
अस्ति वक्तव्यता काचित तेनेदं न विचार्यते ।
निर्दोषं काञ्चनं चेत् स्यात् परीक्षाया बिभेति किम् ॥ ७ अतस्ताम् । 'नीया लोवमभूया य आणिये'त्यादिप्राकृतलक्षणादिह पूर्वत्र चानुवारलोपो द्रष्टव्यः । तथा 'यामभिनन्दयन्तः' स्तुवन्तः । तथा तथाशब्दस्य समुच्चयार्थत्वात् , तां कुर्वन्तश्च । तदुक्तानुष्ठानकरणात् किम् ? नन्दन्ति नरामरापवर्गसुखसमृद्धिप्राप्त्या समृद्धा भवन्ति । 'सत्त्वाः' प्राणिन इति । उक्तः पदार्थः। पदविग्रहोऽपि पदार्थेनैव सहोक्त इति न पृथगुच्यते ।
अधुना चालना-प्रत्यवस्थाने सममेवोच्यते । ननु किमर्थं सर्वज्ञजिनेन्द्र इति पदत्रयोपादानम् ? सर्वज्ञ इत्युक्ते जिन इति लभ्यत एव । सर्वज्ञस्य हि निःशेषान्तरशत्रुविजयेनैव सर्वज्ञत्वोपपत्तेः । नैवम् , हरि-हर-हिरण्यगर्भादीनामपि परैः सर्वज्ञत्वेनाभ्युपगतत्वाद् मा भूत् तद्वाण्यामपि सम्प्रत्यय इति तन्निषेधार्थ जिनपदग्रहणम् । तर्हि सर्वज्ञजिन इत्येतदस्तु, इन्द्र इत्येतदतिरिच्यते, सर्वज्ञजिनानां शेषदेवापेक्षयेन्द्रत्वात् । सत्यम् , सामान्यकेवलिनामपि सर्वज्ञजिनत्वेनाव्यभिचारादिति तीर्थकरप्रतिपत्यर्थमिन्द्रपदोपादानम् । यद्येवं सर्वज्ञेन्द्र इत्येतदस्तु, जिनेत्येतन्निरर्थकम् , सर्वज्ञेन्द्रस्यान्तररिपुविजयेन जिनत्वाद् । अस्त्येवम् , किन्तु शिव-केशव-सुरज्येष्ठानामपि तत्पाक्षिकैरेवमङ्गीकृतत्वात् तन्निषेधार्थं जिनपदकरणम् । एवं तर्हि सर्वज्ञ इति पदमपार्थकं जिनेन्द्रस्य
1A B °णीत्यादि तु पदा। 2A B मङ्गलानि । 3A B यस्यां। 4 A B प्रसन्ना। 5A B °रसा वाग, गम्भी। 6 प्राचीनग्रन्थेब्वियं गाथेदृश्युपलभ्यते-'नीया लोवमभूया, य आणिया दीह-बिंदु-दुब्भावा । अत्थं गमेंति
तं चिय, जो तेसिं पुब्वमेवाऽऽसी ॥'। 7 CD °स्थाने उच्यते। 8 A B °मपि सर्वज्ञत्वे। 9 A अस्त्येव । Jain Education International For Private & Personal Use Only
www.jainelibrary.org