________________
श्रीमद्देवचन्द्रसूरिसन्दृब्धटीकोपेतं प्रद्युम्नसूरिविरचितं 'स्थानकानि'इत्यपरनामकं
मूलशुद्धिप्रकरणम् ।
___ॐ नमः सर्वज्ञाय। बालत्वे शैलराजं चलदखिलधरामण्डलं कम्पयित्वा,
शुद्धं सम्यक्त्वरत्नं सुरविसरपतेर्मानसे यश्चकार । तं नत्वा वर्द्धमानं चरमजिनपतिं मूलशुद्धेः खशक्त्या,
स्पष्टां व्याख्यां विधास्ये निजगुरुचरणद्वन्द्वसद्भक्तियोगात् ॥ तत्र सुगृहीतनामधेयो भगवान् श्रीमत्प्रद्युम्नसूरिः श्रमणोपासकप्रतिमासङ्क्षिप्तस्वरूपावबोधबुद्धिः (द्धि). श्रावकप्रार्थनातः सङ्केपत एव तत्स्वरूपमभिधातुकामो मिथ्यात्वान्धकारबहलपटलान्तरितदर्शनान् भूरिभव्यजीवानपि भगवत्सर्ववेदिप्रभुप्रणीतप्रवरप्रवचनप्रतिपादितप्रकारेणोपलभ्य तदवबोधकं दिनकर इव भाखरकरनिकरमादित एव दर्शनप्रतिमायाः किञ्चिद्विशेषखभावाविर्भावकं मूलशुद्ध्यभिधानं स्थानकानीत्यपरनामकं प्रकरणमारब्धवान् । अस्य च सम्यक्त्वशुद्धयादिप्रतिपादनतः खर्गापवर्गसंसर्गहेतुभूतत्वेन श्रेयोभूतत्वाद् विघ्नाः सम्भवन्ति । यत उक्तम् -
श्रेयांसि बहुविनानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१ इत्यतो विघ्नविनायकोपशान्तये । तथा प्रयोजनादिरहितेऽपि शास्त्रे धीधना न प्रवर्तन्ते; उक्तं च
सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् १ ॥२ सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥३ अतः प्रयोजनादिप्रतिपादनार्थम् । अन्यच्च शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्तोऽभीष्टदेवतानमस्कृतिकरणपूर्वकमेव प्रवर्तन्ते, अतः शिष्टसमयानुपालनमपि न्यायोपपन्नम् । यत उच्यते
शिष्टसमयानुपालनविकलं सच्छास्त्रकरणमपि नैव ।
विद्वजनप्रशस्यं भवति यतोऽसौ समनुपाल्यः॥ इति । ४ तत्प्रतिपालनाय चाऽऽदावेव नमस्कारमाह -
वंदामि सवन्नुजिणिंदवाणी पसन्नगंभीरपसत्थसत्था । जुत्तीजुया जं अभिनंदयंता नंदति सत्ता तह तं कुणंता ॥१॥
1A B °अशुद्धि। 2 0 D °बहुल । 3A B °लम्भत। 4 A B °मायां। 5A B ज्ञायोप। 60D म्वण्णुजिणिदवाणीं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org