SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वशुद्धिवर्णनम् लोगाण तित्थेसं सिणाण दाणं, पिंडप्पयाणं हुणणं तवं च । संकंति-सोमग्गहणाइएसुं, पभूयलोगाण पवाहकिच्चं ॥ ६ ॥ परतीथिकानां वन्दनादि न कल्पत इति सम्बन्धः। 'न कल्पते' न युज्यते, 'से' तस्य प्रतिपन्नदर्शनस्य, परे आत्मव्यतिरिक्तास्तीर्थिकाः दर्शनिनः, परे च ते तीथिकाश्च परतीथिकास्तेषाम् । तथैव' तेनैव प्रकारेण, तेषां परतीथिकानाम् , 'चिय'त्ति अवधारणार्थस्तेन तेषामेव परतीथिकानां या देवताः शास्तृरूपाता(स्ता)सां 'परिग्रहे' खीकारे । 'तेषां च तेषामेव चैत्यानां जिनबिम्बानां तत्परिगृहीतजिनायतनानामित्यर्थः । प्रभावना-प्रशंसादिभिः, वन्दनं प्रणामादिभिः, पूजनं पुष्पादिभिः, आदिशब्दाद् विनय-वैयावृत्त्य-स्नात्रयात्रादिकमपि गृह्यते । उक्तं च नो से कप्पइ अजप्पभिई अन्नउत्थिए वा, अन्नतित्थियदेवयाणि वा, अन्नउत्थियपरिग्गहियाणि चेइयाणि वा, वंदित्तए वा नमसेत्तए वा, पुल्विं अणालत्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, तेसिं गंधमल्लाइं पेसिडं वा । इति (आवश्यकसूत्रस्थप्रत्याख्यानाध्यने, पत्र ८११ तमम् ) ॥ ५॥ ___तथैतदपि न कल्पत इति योगः । 'लोकानां' मिथ्यादृष्टिजनानां 'तीर्थेषु वाराणसी-गयाप्रभृतिषु गत्वेति शेषः । 'स्नानम्' अङ्गप्रक्षालनम्, 'दानं' वितरणम् , 'पिण्डप्रदानं' पितृनिमित्तकल्पितौदनपिण्डस्य नीरादिप्रक्षेपणम् , 'हवनम्' अग्नावाहुतिक्षेपरूपम् , 'तपः' तीर्थोपवासादिकम् , 'चः' समुच्चये । स्नानादीनि तु डमरुकमध्यग्रन्थिन्यायाद् उभयत्र सम्बध्यन्ते । अतः सङ्क्रान्ति-सोमग्रहणादिष्वप्यायोज्यन्ते । सक्रान्तौ रवे राश्यन्तरसङ्क्रमणे, सोमग्रहणे चन्द्रविमानस्य राहुविमानान्तरणे, आदिशब्दात् सूर्यग्रहणामावास्या-व्यतीपातादयोऽवबोद्धव्याः । किमित्यदो न कल्पते ? यतः 'प्रभूतलोकानां' बहुजनानां प्रवाहकृत्यं गड्डरिकाप्रवाहवदू अज्ञानविजृम्भितमेतदिति शेषः। ___ जहा कोइ बंभणो पोक्खरं गओ। सो य तिपुक्खरे न्हाणत्थं ओयरिउकामो हत्थहियतंबभायणं एगत्थ ठवित्ता साहिण्णाणनिमित्तं उवरि वालुगाए उकुरुडं काउं पुक्खरे पइट्ठो । इओ य जत्तागयाणेगलोरोहिं चिंतिय ‘जहेस लंबचोडबंभणो विउसो वेयवी बहुजाणगो एवं करेइ तहा नज्जइ एवं कजमाण महाफैले होइ।' तओ सयललोगो वाल्याए उक्कुरुडं काउं न्हाणत्थं ओयरइ । सो य बंभणो न्हाउत्तिण्णो जाव तं तंबभायणोकुरुडं पलोएइ ताव कयाणि कज्जमाणाणि य अणेगाणि उक्कुरुडाणि पिच्छइ । तओ तं निउँकुरुडमजाणमाणो विमणदुम्मणो जाओ । ताहे मित्तेण भणिओ 'मित्त! तुमं गिहाओ धम्मत्थी आगओ इह तित्थे न्हाउत्तिण्णो सहसा किं संपइ दुम्मणो जाओ? ।' तओ तेण भणियं गतानुगतिको लोको न लोकः पारमार्थिकः। पश्य लोकस्य मूर्खत्वं हारितं ताम्रभाजनम् ॥१४ ईदृशो लोकस्य प्रवाह इति वृत्तद्वयार्थः ॥ ५-६ ॥ साम्प्रतं सम्यग्दर्शनस्यैव भूषणादीन्यभिधातुकाम उत्क्षेपं वृत्तेनोक्तवान्पंचेव सम्मत्तविभूसणाई, हवंति पंचेव य दूसणाई। लिंगाइँ पंच च(च)उ सद्दहाण, छच्छिडिया छच्च हवंति ठाणा ॥ ७ ॥ 10 D लोयाण। 26 °सु य ण्हाण दाणं। 30D °कादीनां। 4 A B °नादि कल्पत। 5A B देवता। 6AB बिम्बा तत्प। 70 D अन्नउत्थिय देवयाणि वा अन्नतिथियपरिग्गहियाणि वा अरिहंतचेइयाणि, वंदि। 8 A B चान्द्र। 9 0 D पोक्करं । 10 C D °फल भवइ । 11 A B °णि अणेगाणि य उक्कु । 12 C D निजुक्कर। 130D लोकप्रवाह । 14 0 D भवंति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy