________________
साधुप्रतिपत्तिप्ररूपणा
काले पत्ता पत्ताणं धम्मसद्धा कमाइणा ।
असणाईण दव्वाणं दाणं सव्वत्थसाहणं ॥ ८२ ॥
' काले' प्रस्तावे तस्यैव बहुफलत्वात् । उक्तं चकाले दिणस्स पणयस्स अग्घो ण तीरए काउं ।
तस्सेव अथकपणामियस्स गिव्हंतया णत्थि ॥ २६९ ॥
'प्राप्तानां' गृहाङ्गणमागतानाम् ' पात्राणां ' विशिष्टगुणवतां क्रयादिनिवृत्तानाम्, उक्तं चआरंभणियत्ताणं अकुणंताणं अकारवैताणं ।
धम्मट्ठा दायव्वं गिहीहि धम्मे कयमणाणं || २७० || ( वृ० क० भा० गा० २८०९ ) ' धर्मश्रद्धा क्रमादिना' धर्मश्रद्धया च विशिष्ट भावोल्लासेन; क्रमेण च देशप्रसिद्धेन, आदिशब्दात् सत्कार-सन्मानादिग्रहः, ‘अशनादीनाम् ' ओदनादीनाम्, आदिशब्दात् पान-खाद्या -ऽऽस्वाद्यादिग्रहः। उक्तं चअशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकं प्रख्यं मुख्यं चरित्रविवर्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ।। २७१ ।।
'द्रव्याणां ' वस्तूनां 'दानं' वितरणम्, यतिभ्य इति गम्यते । पूर्वोक्तगुणकला पोपेतवस्तुभिश्च ये प्रतिलाभयन्ति साधून् त एव धन्याः । यत उक्तम्
प्रायः शुद्धैस्त्रिविधविधिना प्राशुकैरेषणीयैः कल्प्य प्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमशनं श्रद्धया साधुवर्गान्, धन्याः केचित् परमवहिता हन्त ! सन्मानयन्ति ॥
'सर्वार्थसाधकं ' निःशेषार्थकारकम् । उक्तं च
तर्षेऽम्बुक्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, व्याधौ सत्प्रतिचारकौषधभिषक् सम्पद्विदेशे सुहृत् । छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्रे प्रभा, दानं संसरतां भवे प्रतिभये चिन्तामणिर्देहिनाम् ॥ दाणु भूय वैसि करइ दाणु सोहग्गु पयासइ, दाणु विग्घ णिद्दलइ दाणु जणि जसु उल्लासह । दाणु सग्गु अपवग्गु देइ अन्नु वि जं जं मणि, दाणतुल्लु ण वि अत्थि इत्थ तिहुयणि चिंतामणि ॥ आदिशब्दसंसूचितवस्तूनि स्वयमेवाऽऽह
असणं खाइमं पाणं साइमं भेसहोसहं ।
वत्थं पडिग्गहं चैव रओहरण कंबलं ॥ ८३ ॥
'अशनं' भक्तादि । उक्तं च
असणं ओयण-सत्तुग-मुग-जगाराह खज्जगविही य ।
खीरा सूरणाई मंडप भिई र्यं विष्णेयं ।। २७५ ॥ ( पञ्चा० गा० २२)
૪૭
तत्र ओदैनः=कूरम् | जगारीशब्दस्तु सिद्धान्तभाषया गदितत्वाद् अव्याख्येयः । 'खाइमं” खादिमं= भक्तो (तौष) कादि । उक्तं च
1CD अकिणं । 2 A B °ष्टस्वभावो । 3 CD द्यादि । 4 G D वस । 5A B विग्वणिद्दलणु । 1 7ABE 'सओसहं । 8ABI 9CD दनं कूरं । 10 CD मं' ति खाद्यं भक्तो ।
For Private & Personal Use Only
Jain Education International
6 C D
www.jainelibrary.org