________________
१४८
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् भत्तोसं दंताई खजूरं नालिकेर-दक्खाई।
ककडिगं-उंबग-फणसाइ बहुविहं खाइमं णेयं ॥ २७६ ॥ (पञ्चा० गा० २२९) 'पाणं'ति पानकं सौवीरादि । उक्तं च
पाणं सोवीर-जवोदगाइ चित्तं सुराइयं चेव ।
आउक्काओ सव्वो कक्कडगजलाइयं चेव ॥ २७७ ॥ (पञ्चा० गा० २८८) 'साइमंति खाद्य दन्तपचनादि । उक्तं च
दंतवणं तंबोलं चित्तं तुलसी-कुहेडगाईयं ।
महु-पिप्पलि-सुंठाई अणेगहा साईमं णेयं ॥ २७८ ॥ (पञ्चा० गा० २३०) 'भेसहति भेषजं प्रचुरद्रव्यनिष्पन्नं नागरावलेहादि पथ्यं वा, 'ओसहति एकद्रव्यमेव, 'वत्थंति वस्त्रम् , 'पडिग्गहंति पतगृहकः पात्रमित्यर्थः । चेवशब्दो दण्ड कादिसूचनार्थः । 'रओहरणं'ति रजोहरण-दण्डकदशादिनिष्पन्नमिति भावः, 'कंबलंति कम्बलमौर्णिकम् ।।
पीढगं फलगं चेव सेज्जा संथारगं तहा ।
धम्मोवगरणं णाणा णाणाईण पसाहणं ॥ ८४ ॥ 'पीठकम्' आसनम् , 'फलकं' शयन काष्ठम् , चेवशब्दः शेषभेदसंसूचनार्थः, 'शय्या' वसतिः सर्वाङ्गीणशयनं वा, 'संस्तारकः' अर्धतृतीयहस्तप्रमाणः कम्बलीमयः, 'तथा' तेनैव प्रकारेण, 'धर्मोपकरणं' धर्मसाधनम्, 'नाना' अनेकप्रकारम् , ज्ञानादीनां 'प्रसाधनं' कारणम् , देयमिति सम्बध्यते । इति श्लोकषट्रार्थः ॥ ७९-८४ ।। साम्प्रतं दानदायिनामिहलोक-परलोकफलसूचकदृष्टान्तान् श्लोकद्वयेनाऽऽह
असणाईण दाणेणं इहई भोगसंपया । इट्ठा दिट्ठा य दिटुंता मूलदेवाइणो बहू ॥८५॥ परलोगम्मि सत्थाहो धणो गामस्स चिंतओ।
सेयंसो चंदणा दोणो संगमो कयउन्नओ ॥ ८६॥ 'अशनादीनां' पूर्वोक्तानाम् , 'दानेन' वितरणेन, 'इहई' ति अत्रैव जन्मनि, 'भोगसम्पद्' भोगलक्ष्मीर्भवतीत्यध्याहारः । अत्राऽर्थे 'इष्टाः' अभीप्सिताः, 'दृष्टाश्च' अवलोकिताः, चकारात् श्रुताश्च, 'दृष्टान्ताः' उदाहरणानि, 'मूलदेवादयः' मूलदेवप्रभृतयः, 'बहवः' प्रभूता इति ॥
'परलोके' अन्यजन्मनि, सार्थवाहो 'धनः धननामा प्रथमतीर्थकृज्जीवः, 'ग्रामस्य चिन्तकः' पश्चिमतीर्यकरजीवः, 'श्रेयांस' प्रथमजिनप्रथमपारणकदाता, 'चन्दना' चन्दनबाला गृहीतदुस्तराभिग्रहश्रीवीरजिनपारणककारयित्री, श्रेयांस-चन्दनयोश्च तद्भवापेक्षया मुक्तिपदं परलोकः, तच्च दानफलमित्यभिप्रायः, 'दोणो' त्ति द्रोणनामा कर्मकरः, 'सङ्गमकः' शालिभद्रजीवः, कृतपुण्यकश्च प्रतीतः । एते दृष्टान्ताः पारलौकिकदानफलविषया इति श्लोकद्वयाक्षरार्थः ॥ ८५-८६ ॥
भावार्थस्तु कथानकेभ्योऽवसेयः । तानि चामूनि, तत्र तावद् मूलदेवकथानकं कथ्यते
4 CD म होइ। 50 D°हकं पा।
10 D नालिएर। 20 Dयं च तहा। 30D गाई य। 60 DE सेजंसो। 70 Dतीत्याध्या। 80 D°ष्टाः' ईप्सि। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org