________________
साधुप्रतिपत्तिप्ररूपणां
भासियव्वं हियं वक्कं जं परीणामसुंदरं ।
मियं थेवे वणेहिं सहावमहुरं तहा ॥ ७७ ॥
पुव्वं बुद्धीऍ पेहेत्ता भांसियव्वं सुहासियं ॥ ७८ पू० ॥
' भाषितव्यं' जल्पनीयम्, 'हितं ' श्रेयस्कारि 'वाक्यं ' वचनम्, यत् ' परिणामसुन्दरम्' आयतिसुखावहम् ' मितं ' परिमितं स्तोकवर्णैः = अल्पाक्षरैः, 'स्वभावमधुरं ' श्रवणपेशलम् । तथाशब्दोऽग्रेतनश्लोकसम्बन्धनार्थः । ' पूर्व ' प्रथमं 'बुद्धया ' मत्या 'प्रेक्ष्य' पर्यालोच्य भाषितव्यं ' सुभाषितं' निर्दूषणम् । उक्तं चबुद्धीऍ पिएऊणं भासेजा उभय लोगपरिसुद्धं ।
स- परोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥ २५४ ॥ द्वितीयभाषणक्रिया भिन्नभिन्नश्लोकत्वादिति सार्धश्लोकार्थः ॥ ७७-७८ पू० ॥ साम्प्रतं मनोविनयं लोकोत्तरार्धेनाऽऽह
दुई चित्तं निरुंभेत्ता उदीरे कुसलं मणं ॥ ७८ उ० ॥
'दुष्टम् ' आर्त- रौद्रानुगतं, 'चित्तं मनः 'निरुंभेत्ता' निरुध्य 'उदीए' उल्लासयेत् 'कुशलं ' धर्मध्यानानुगतं ' मनः' चित्तम् । यत उक्तम्
1ODE थेवेहि । 6OD संसारिषु प । Jain Education Intम १९
रक्षेदं चित्तसद्रत्नं यस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं यत्र सर्व प्रतिष्ठितम् ।। २५५ ॥ यदेदं निस्पृहं भूत्वा परित्यज्य बहिर्भ्रमम् ।
X
स्थिरं सम्पत्स्यते चित्तं तदा ते परमं सुखम् ॥ २५६ ॥ भक्ते स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं तदा ते परमं सुखम् ॥ २५७ ॥ वजने स्नेहसम्बद्धे रिपुवर्गेऽपकारिणि ।
स्यात् तुल्यं ते यदा चित्तं तदा ते परमं सुखम् ॥ २५८ ॥ शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि वा ।
एकाकारं यदा चित्तं तदा ते परमं सुखम् ॥ २५९ ॥ गोशीर्षचन्दनापि वासीच्छेदकयोर्यदा ।
अभिन्ना चित्तवृत्तिः स्यात् तदा ते परमं सुखम् ॥ २६० ॥ सांसारिकपदार्थेषु जलकल्पेषु ते यदा ।
अश्लिष्टं चित्तपद्मं स्यात् तदा ते परमं सुखम् || २६१ ॥ दृष्टेषूद्दामलावण्यबन्धुराङ्गेषु योषिताम् ।
निर्विकारं यदा चित्तं तदा ते परमं सुखम् || २६२ ॥ यदा सच्चै कसारत्वादर्थकामपराङ्मुखम् ।
धर्मे रतं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६३ ॥
१४५
2 A B भासेय° । 3 C D E निरंभित्ता । 4 CD रयेत् उल्ला° ।
7 A B °ष्टेषु रूपलाव' ।
For Private & Personal Use Only
5 CD °पि च ।
3
www.jainelibrary.org