________________
सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् विभक्तिलोपाद् विचित्रविच्छित्तिविचित्रचित्राणि' विचित्रा: नानाप्रकाराः, विच्छित्तयः स्फीतयो येषु तानि तथा । विचित्राणि शोभनानि, चित्राणि-चित्रकर्माणि, येषु तानि तथा । विचित्रविच्छित्तीनि च तानि विचित्रचित्राणि चेति समासः। तथा पाठान्तराद्वा विचित्राः अनेकप्रकाराः, विच्छित्तयः भक्तयः, ताभिर्विभक्तानि असम्मिलितानि पूतानि वा चित्राणि येषु तानि तथा । 'सच्छत्र-भृङ्गार-सुचामराणि' छत्रम् =आतपत्रम् , तच्च छत्रत्रयरूपम् । तत् तु त्रैलोक्यदेवाधिदेवत्वसंसूचकं जिनस्यैव भवति । भण्यते च
छत्तत्तउ तउ उवरि देवइंदिण करि धरियउ,
कणयडंडुवरि हारलोलमालहिँ परियरियउ । तिजगमज्झि देवाहिदेवु किर अन्नु न अइसउ,
पयडइ एउ निरुत्तु एहु 'जण ! कुणहु म संसउ' ॥ १४० ॥ ___ भृङ्गाराः गजमुखाकृतयः स्नात्रोपयोगिभाजनविशेषाः । सुचामराणि प्रधानप्रकीर्णकानि । ततश्च छत्रं च भृङ्गाराश्चेत्यादिद्वन्द्वस्तैः सह वर्तन्ते यानि तानि तथा । 'सशालभञ्जिका-मकरध्वजचिह्नानि' सह शालभञ्जिकाभिः लेप्यादिमयपुत्रिकाभिर्मकरध्वजचिर्न च-महा[झष केतुलाञ्छनरूपेण वर्तन्ते यानि तानि तथा । मकरध्वजचिह्न हि मकरकेतनजयसंसूचकम् । भण्यते च--
तत्तुत्तिन्नवरेन्नवन्नसुसुवण्णविणिम्मिउ,
जम्मि दंडु तह धवलु चेलु मंदानिलघुण्णिउ । सो जाणह अरहंतचिंधु ऍहु गहिउ महद्धउ,
_णिजिणेवि जयजिणणजोहु दुजउ मयरद्धउ ॥ १४१ ॥ 'वातोद्भूतानेकध्वजाकुलानि' वातेन=समीरणेनोद्धृताः-उत्क्षिप्ताः, अनेके प्रभूताः, ध्वजाः देवकुलोपरिपताकारूपास्तैः आकुलानि सङ्कीर्णानि यानि तानि तथेति वृत्तार्थः ॥ २९ ॥ तथा
देवंग-पढेंसुय-देवदूसउल्लोयरायंतनिरंतराइं ।
विलोलमुत्ताहल-मल्लमालापालंबओऊलकुलाऽऽकुलाइं ॥ ३० ॥ पूर्वापरनिपाताद् 'देवाण-पट्टांशुक-देवदूष्यराजदुल्लोचनिरन्तराणि' देवाङ्गानि प्रधानसिचयानि, पट्टांशुकानि-पट्टसूत्रनिर्मितानि, देवदूष्याणि-सुरवस्त्राणि, तै राजन् –शोभमानो य उल्लोच: आकाशतलशोभा तेन निरन्तराणि व्याप्तानि यानि तानि तथा । विलोलमुक्ताफल-माल्यमालाप्रालम्बावचूलकुलाकुलानि' विलोलाः इतश्चेतश्चलन्त्यो मुक्ताफलानाम् मौक्तिकानाम् , माल्यानी-सुमनसाम् , या मालाः तथनरूपास्तासां प्रालम्बा:= लम्बमानपुष्पगण्डूषरूपास्तेषु अवचूलाः स्तबकास्तेषां कुलानि सङ्घातास्तैराकुलानि-व्याप्तानि यानि तानि तथेति वृत्तार्थः ॥ ३० ॥ तथा
कप्पूर-कत्थूरिय-कुंदुरुक्क-तुरुक्क-सच्चंदण-कुंकुमाणं ।
डझंतकालांगरुसारधूयणीहारवासंतदिगंतराइं ॥ ३१ ॥ तत्र 'दह्यत्कालागरुसारधूपनिर्झरवास्यमानदिगन्तराणि' इति उत्तरार्धव्याख्या दांश्चासौ धूमावस्थामनुभवन् कालागरुसारश्च काकतुण्डागरुप्रधानः स चाऽसौ धूपश्च दह्यत्कालागरुसारधूपः, तस्य निर्हारः 10 D °देउ । 2 A B प्रधानानि प्रकीर्णकविशेषाः। ततश्च । 3 A B तहि । 4 A B °धानानि सिच ।
। 6A B°लागुरु' । 7 C D E दियंत । 8-9 A B °लागुरु। 10 A B °ण्डागुरु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org