________________
प्रथमस्थानकोपसंहारः इय सामत्थाभावे दोहिं वि वग्गेहिँ पुव्वपुरिसाण । इय सामत्थजुयाणं बहुमाणो होइ कायवो ॥ १२८॥ ते धण्णा सप्पुरिसा जे एवं एवमेव णीसेसं । पुचि करिंसु किच्चं जिणजत्ताए विहाणेण ॥ १२९॥ अम्हे उ तह अधण्णा, धन्ना उण एत्तिएण जं तेसि । बहुमण्णामो चरियं सुहावहं धम्मपुरिसाणं ॥ १३०॥ इय बहुमाणा तेसिं गुणाणमणुमोयणाणिओगेण । तत्तो तत्तुल्लं चिय होइ फलं आसयविसेसा ॥ १३१ ॥
(पञ्चा० गा० ४१७-४२८) किमेतत् स्वकृतानामेव बिम्बानां कारयेदुताऽन्यकृतानामपि ? इत्याह–'अण्णच्चयाणं च'त्ति देशिशब्दत्वात् चकारस्यापिशब्दार्थत्वाद् अन्यकृतानामपि परप्रतिष्ठापितानामपीत्यर्थः । 'चिरंतणाणं ति चिरन्तनानां प्रभूतकालीयानां यतो नूतनबिम्बकरणात् सीदत्परकृतबिम्बपूजनं बहुगुणम् । 'जहारिहं'ति यथार्ह-यथायोग्यम् । किं पूजादिकमेव कृत्यमुतान्यदपि ? इत्याह- रक्खण वद्धणति चस्य गम्यमानत्वाद् रक्षणं वर्धनं च । रक्षणं तदुपद्रवकारिनिवारणतः । वर्धनं निर्मलताकरणाद्युत्तरोत्तरविशेषापादनतः । यद्वा रक्षणं वर्धनमपि च द्रव्यस्येति शेषः । तत्र रक्षणं भक्षितोपेक्षितप्रज्ञाहीनदोषवर्जनतः, यतश्चैत्यद्रव्यरक्षणफलमुक्तमुपदेशपदेषु
जिणपवयणवुड्डिकरं विभावणं णाण-दंसण-गुणाणं ।
रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ १३२ ॥ (गा० ४१८) जिनप्रवचनवृद्धिकरं तत्सन्तानाव्यवस्थितिकरितया । विभावनं=दीपकम् । तद्विनाशे च महान् दोषः । यतस्तत्रैवोक्तम्
चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ ।
धम्मं व सो ण याणइ अहवा बद्धाउओ पुचि ॥१३३॥ ( उप० गा० ४१४) चैत्यद्रव्यं जिनेन्द्रबिम्बवित्तम् । साधारणं च सङ्घसम्बन्धि च । यः पापकर्मा । द्रुह्यति भक्षयति । धर्म=निःस्पृहतालक्षणम् । वाशब्दात् तद्भोगविपाकं च न जानाति । 'अथवा' इति प्रकारान्तरे । बद्धायुर्नरकादिषु, द्रोहणकालात् पूर्वमिति । किञ्च आस्तां श्रावकः साधूनापि तद्विनाशे नोपेक्षा विधेया । यतः
चेइयदव्वविणासे तद्दबविणासणे दुविहभेए ।
साहू उविक्खमाणो अणंतसंसारिओ होइ ॥१३४ ॥ ( उप० गा० ४१५) चैत्यद्रव्यविनाशे । तद्र्व्यं तदुपयोगिदारूपलेष्टकादि । द्विविधभेदे-नूतन-लग्नोत्पाटितभेदात् , मूलोत्तरभेदाद्वा द्विप्रकारे । मूलं-स्तम्भ-कुम्भिकादि, उत्तरं-छादनादि, तस्मिन् । यद्वा द्विविधभेदे खपक्ष-परपक्षजनितविनाशे । तथा
संजइचउत्थभंगे चेइयदव्व्वे य पवयणुड्डाहे । इसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ १३५ ॥
10D °म्बकारणात् पूजनं। 20D वधंन बिम्बद्रव्य । 30 D°णविद्धिकरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org