________________
जिनपूजकफलवर्णना जिनबिम्बपूजाकारी यादृग्विधो न भवति तदुक्तम् । साम्प्रतं यादृशो भवति तद् वृत्तद्वयेनाऽऽह
भवे पुणोऽसेससुहाण ठाणं, महाविमाणाहिवई सुरेंदो। तओ चुओ माणुसभोगभागी, रायाहिराया व धणाहिवो वा ॥ २४ ॥ कलाकलावे कुसलो कुलीणो, सयाणुकूलो सरलो सुसीलो।
सदेवमच्चा-ऽसुरसुंदरीणं, आणंदयारी मण-लोयणाणं ॥ २५ ॥ 'भवेत्ति प्राकृतत्वाद् भवति जायते । पुनःशब्दो भिन्नवाक्यार्थः। 'असेससुहाणं'ति अशेषसुखानां= समस्तसौख्यानां दारिद्र्यादिविपरीतानाम् । 'ठाणं'ति स्थानम् = आस्पदम् । पूर्वत्रेहलोक-परलोकयोः प्रस्तुतत्वाद्, एतदिह लोके । परलो के तु 'महाविमाणाहिवईत्ति महाविमानाधिपतिः महान्ति च तानि=बृहत्प्रमाणानि विमानानि च-देवनिकेतनानि महाविमानानि, तेषामधिपतिः स्वामी। सुरेंदो'त्ति देवप्रभुः, उपलक्षणं चैतद् इन्द्रसामानिकादीनाम् । देवसुखमभिधाय पारलौकिकमेव मनुजसुखमाह - 'तओ चुओ'त्ति ततः देवलोकाच्युतः व्युपरतः सन्निति गम्यते । 'माणुसभोगभागि'त्ति मानुषाणां मर्त्यानां भोगाः शब्दादयस्तान् भजते सेवते तच्छीलश्चेति मानुषभोगभागी । 'रायाहिराया वत्ति राज्ञां-महासामन्तानामधिराजः चक्रवर्ती राजाधिराजः, वाशब्द इन्द्राद्यपेक्षया विकल्पवाची । 'धणाहिवो वत्ति धनाधिपः-द्रव्यस्खामीश्वर इत्यर्थः, स च प्रस्तावात् क्षत्रियवणिग्-ब्राह्मणादिः । वा-विकल्पे ।
सोऽपि किम्भूतः ? इत्याह-'कलाकलावे'त्ति कलाः लेख्यादिविज्ञानरूपास्तासां कलापः-सङ्घातः कलाकलापस्तस्मिन् । 'कुसलो'त्ति कुशल:=प्रवीणः । 'कुलीणो'त्ति कुलीनः विशुद्धपितृपक्षः, मातृपक्षोपलक्षणं चैतत् । 'सयाणुकूलो'त्ति सदा सर्वकालमनुकूल: प्रियकारी, सतां वा सत्पुरुषाणामनुकूलः सदनुकूलो दीर्घत्वमलाक्षणिकम् , यद्वा सत्-संसत् परिषदित्यर्थः, सा अनुकूला यस्य सः सदनुकूलः । 'सरलो'त्ति सरल: अकुटिलः । 'सुसीलो त्ति सुशील:-शोभनखभावः । 'सदेवमच्चा-ऽसुरसुंदरीणं'ति माश्च-मनुजाः असुराश्च भवनपतयो मा-ऽसुराः, सह देवैः वैमानिकैवर्तन्ते ये ते तथा, तेषां सुन्दर्य: रामास्तासाम् । 'आणंदयारि'त्ति आनन्दकारी रागाद्युत्पादयिता, भवतीति क्रिया सर्वत्र सम्बध्यते । 'मण-लोयणाणं ति मनोलोचनानां चित्त-चक्षुषाम् , सुरादिवनितानन्दकत्वे च भरत उदाहरणम् । तथा च
जं गंगादेवीए अणुरायपरव्वसाएँ रइसोक्खं । सह भुंजतो वसिओ तीसे भवणम्मि बहुकालं ॥१ इत्थीरयणाईणं अण्णाण वि चित्तलोयणाणंदं । जणयंतो जं भुंजइ उदारभोगुब्भवं लच्छि ॥२ तज्जम्मतरतद्दोसरोगपीडियजइस्स किरियाए । उव्वरियरयणकंबल-चंदण-गोसीसमोल्लेण ॥ ३ कारावियजिणमंदिरठावियतबिबभत्तिकरणस्स । सोक्खाणुबंधजणयं अणण्णसरिसं फलं मुणह ॥ ४
इति वृत्तद्वयार्थः ॥२४-२५॥ इत्थं बिम्बोचितकरणफलमुपदर्य सम्प्रत्युपदेशदानपूर्वकं प्रकरणोपसंहारमाह -
कारेज तम्हा पडिमा जिणाणं, पहाणं पइट्ठा बलि पूय जत्ता। अण्णच्चयाणं च चिरंतणाणं, जहारिहं रक्खण वद्धणं ति"॥ २६ ॥
1 F थाणं। 2 C D सुरिंदो। 3 A B 'वादिह। 4 A B °के महा। 50 D सुरिंदो। 6 A B भजति । 7A B °वात् क्षात्र-व। 8 A B यदि वा सत् । 90 D पर्षदि। 100 D °दिविलयानन्द। 110 Dहारं वृत्तेनाह। 12 F°ति ॥ २६ ॥ पढ़मं ठाणं ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org