________________
जिनपूजकफलवर्णना एतच्च विशेषणं समस्तपूजास्वायोज्यम् । तथा 'पाणीयपुण्णेहिँ य भायणेहिंति चकारस्य व्यवहितसम्बन्धात् पानीयपूर्णभाजनैश्च = सुगन्धि-स्वच्छ-शीतलजलभृतकरकादिस्थानविशेषैः । उक्तं च
निर्मलोज्वलजलोपशोभितं, पूर्णपात्रनिकरं कृतादरः।
ढोकयेत् सततमेव वेश्मभाग, जातसान्द्रपुलको जिनाग्रतः ॥१०७ ॥ इह पूर्वत्र च चकारोऽनुक्तसमुच्चये, तेन नैवेद्य-वस्त्रा-ऽऽभरण-विलेपनादिपूजानामप्यष्टप्रकारपूजायामन्त वो द्रष्टव्य इति वृत्तार्थः ॥२१॥
उक्तं पूजाखरूपम् । साम्प्रतं यादृग्विविशेषणयुक्तः सन् जिनबिम्बपूजाप्रवृत्तः प्राणी यादृग्विधदुःखभाग् न भवति तद् वृत्तद्वयेनाऽऽह
पूयं कुणंतो बहुमाणवंतो, उदारचित्तो जिणभत्तिजुत्तो। दारिद-दोहग्ग-दुरंतदुक्ख-दुव्वण्ण-दुग्गंध-दुरूवयाणं ॥ २२ ॥ संताव-संजोग-वियोग-सोग-णिहीण-दीणत्तणमाइयाणं । तिक्खाण दुक्खाण भवुब्भवाणं, ण भायणं होइ भवंतरे वि ॥ २३ ॥
'पूर्य'ति, पूजां सपर्या पूर्वोक्ताम् । 'कुणंतो'त्ति कुर्वन् विदधानः। 'बहुमाणवंतो'त्ति बहुमानवान्= आन्तरप्रीतिविशेषयुक्तः सन् अटवीमध्यस्थितशिवकपूजार्थनिरूपितधार्मिकविहितविशिष्टपूजावामपादोत्सारकशिवकोपरिक्षिप्तमुखगण्डूषदक्षिणहस्तस्थितपुष्पपूजाकरणानन्तरपादपतितशिवकसम्भाषणकुपितधार्मिकप्रत्ययार्थोत्सारितैकलोचनशिवकदर्शनोद्भूतखेदबहुमानवशपरवशीभूतभल्युत्खातनिजलोचनप्रदपुलिन्द्रकवत् । पुनरपि कथम्भूतः ? 'उदारचित्तो' त्ति उदारचित्तः अकृपणाशयः। पुनरपि कीदृशः? 'जिणभत्तिजुत्तो'त्ति जिनभक्तियुक्तः, जिनाः रागादिजेतारस्तीर्थकृतः, तेषां भक्तिः बाह्यकृत्यकरणरूपा तया युक्तः समन्वितो जिनभक्तियुक्तः। 'ण भायणं होइ भवंतरे वि' इति सँण्टङ्कः । केषाम् ? इत्याह-'दारिद-दोहग्ग-दुरंतदुक्ख-दुव्वण्ण-दुग्गंध-दुरूवयाणं'ति दारिद्यं निर्द्रव्यता, तच्च सर्वापदामास्पदम् । उक्तं च
निद्रव्यो हियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो,
निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविहतो बुद्धेः परिभ्रश्यति,
__ भ्रष्टश्च क्षयमेत्यहो" ! निधनता सर्वापदामास्पदम् ॥ १०८ ॥ दौर्भाग्यं सर्वजनाप्रियत्वं महामानसिकदुःखहेतुः । उक्तं च
दुस्सहदोहग्गकलंकजलणजालावलीपलित्ताणं ।
जीवंतमयाण णिरत्थएण किं तेण जम्मेण ? ॥१०९॥ दुरन्तदुःखम् अपाराशर्म । दुवर्णः=विरूपा देहरुचिः। दुर्गन्धः दुष्टगन्धः । दु(? दू)रूपकं विशोभाकृतित्वम् , खार्थे कप्रत्ययः । दारिद्रयं च दौर्भाग्यं चेत्यादिद्वन्द्वः, तेषाम् । तथा 'संताव-संजोग-विओगसोग-णिहीण-दीणत्तणमाइयाणं तिक्खाण दुक्खाणं'ति सन्तापः चित्तखेदः, स च महादुःखकारणम् । यतः
1A Bत्र चकारो। 2A B पूजनमप्य। 3A B°धशेषगुणयुतः सन् । 40 D E दालिद्द। 5A B भवोब्भ। 6 दृश्यतां बृहत्कल्पसूत्रप्रथमांशस्य २५३ तमपत्रप्रथमटिप्पणीगतं कल्पचूर्णेनिष्टङ्कितमेतदुदाहरणम्। 7A B°तः उदारचित्तः। 8 0 D पुनः की। 9 A B °या संयुक्तः। 10 C D सम्बन्धः। 11 0D °स्पदम् यत उक्तम्-नि। 12 C D हो अधन। 13 A B °महामानसदुःख। 14 A B°द्वन्द्वः । तथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org