________________
चन्द्रलेखाविजयप्रकरणम् ]
त्वच्चित्तानुगतं सुखस्य परमां विश्रामजन्मक्षितिं
मुक्त्वा सम्प्रति मां मृगाक्षि ! भवती बध्नाति कुत्र स्थितिम् ॥ ४१ ॥
(शार्दूल)
तत्त्वप्रपञ्चनः- (सचिन्तम् ) सर्वथा महतीयमनर्थपरम्परा । तत् किं मयाऽप्यनेनेव शोकपरायणेन भवितव्यम्, उत उद्युक्तेन । (क्षणं विमृश्य ) आपद्गते प्रणयिनि प्रलयं गतेषु पुण्येषु ही गुरुषु दूरतरं गतेषु । पुंस्त्वानुगव्यवसितौ स्थितमानसस्य किञ्चिद् विधास्यति विधिर्न तदत्र वेद्मि || ४२ ॥ ( साभ्यहम्
विपुलमतेरपि कस्मात्, समजनि हृदये ममाद्य वैधुर्यम् । ( क्षणं स्थित्वा )
[तृतीयोऽङ्कः
यदि परममुष्य सौख्यात् प्रतिपद्ये स्वास्थ्यविभवेन || ४३ || (आय) (ततः प्रविशत्याकाशयानेन मतिविभवः)
मतिविभवः- मा गाः खेदं क्वचिदपि न ते दूरतः सास्ति बन्धो ! पातालान्तर्वसति स रिपुर्योऽपहारं व्यधत्त । मार्गेऽमुष्मिन् कतिपयपदप्राप्य एवास्ति कूपो
दत्त्वा झंपां द्विजवर ! इह ध्वंसतां स्वं सपत्नम् || ४४ || ( मन्दाक्रान्ता) ( इत्युक्त्वा तिरोदधे ) तत्त्वप्रपञ्चनः- अयि ! विजयेन्द्र ! श्रुतं भवता गगनान्तरवर्तिसिद्धवचनम् | विजयः- (तत्क्षणं मुक्तशोकः सोत्साहम् ) सखे ! विस्पष्टमश्रावि ।
तत् किमद्यापि विलम्ब्यते । दर्शय मार्गम् । प्रवणोऽस्मि योद्धुम् | तत्त्वप्रपञ्चनः- ( चिन्तां नाटयति) सखे ! नाद्यापि तत्र नेदीयसी गतिः, दारुणो विकटसञ्चारश्च खल्वयमन्धकूपः, तदुपायः कोऽपि महांश्चिन्तनीयोऽस्ति ! विजयः- यद्येवमस्ति ततस्तच्चिन्तने किं चिरयसि ? |
Jain Education International
(वसन्ततिलका)
तत्त्वप्रपञ्चनः- (स्मृत्वा) अस्त्युपायः । (इत्युक्त्वा ध्यानं नाटयति वदति च ) मित्रापदि गतेनाद्य, मित्रं पातालसंश्रय (यं ) ।
स्मर्यतेऽत्र मया नागरूपं नोपैति किन्तु तत् ॥ ४५ ॥
५७
For Private & Personal Use Only
(अनुष्टुप्)
www.jainelibrary.org