SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् तत्त्वप्रपचन:- तत्रैव तिष्ठति सा, तदपरोधाच्चेट्या आर्तभाषिताच्च व्याकुलहृदय स्त्वां प्रपन्नोऽस्मि, न शङ्कनीयम् । इदानीमेव आयातोऽस्मि । सम्प्रत्येव तत्र संप्राप्तः । (वदन् परिवृत्त्य त्वरितगतिं नाटयति) विजयः- सर्वथा दुरापा प्रिया सम्प्रति । तत्त्वप्रपचन:- (गत्वा शून्यं स्थानमवलोक्य) हहा मुषितोऽस्मि मन्दभाग्यः, किं करवै? (तत्रैवोपविश्य जानुद्वयान्तर्मुखं निक्षिपन् वैलक्ष्यं नाटयति) विजयः- (तं तादृशं दृष्ट्वा सानुतापम्) सर्वथा गतैवाद्य दयिता, क्व प्राप्तव्या ? कथं तां । विना क्षणमपि प्राणितव्यम् । नूनं निरनुबन्धः कर्मानुबन्धः । अन्यथा - एकाकिनी कथमगात् कुसुमानि हर्तुं चेटी कथं मृगरिपुर्वसतौ समेतः । कान्तां समर्प्य कथमस्य गतस्तदाऽहं त्यक्त्वा तु तां कथमयं श्रयति (स्म चा)स्मान् || ३७ ।। (वसन्ततिलका) . (मित्रं प्रति) ऋजुहृदय ! किमेतज्जातमस्मासु कष्टं, हृदयभिदुरमेवं सावधानेष्वपीह । अविरतरतिरित्थं मामयं पीडयित्वा, किमपि फलमवाप्ता विश्वकृत्तन्न विद्मः ।। ३८ ॥ (मालिनी) (इतस्ततोऽवलोक्य) यदि कथमपि जातस्तापसत्वाज्जडोऽयं भगवति वनलक्ष्मि ! त्वं किमासीरुदासा । यदिह तनुजकल्पस्तत्र वध्वा समायामिति विघटितवत्यां ज्ञापितोऽप्येष नाहम् ।। ३९ ॥ (मालिनी) (पुनः स्मृतिमभिनीय सविषादम्) एषा मृगी वलितकन्धरमीक्षमाणा हंसाङ्गनाऽथ सविलासमियं चलन्ती । तं पंचमं पिकवधूरियमुगिरन्ती विस्मारन्त्यहह तां न कदाप्यमूनि ।। ४० ।। (वसन्ततिलका) (अनुसंहितप्रियामुद्दिश्य) नीलीरागमकृत्रिमप्रियसखं विश्वासलीलागृहं चेतोजन्मकलागुरुं नवनवप्रीतिप्रपञ्चास्पदम् । विमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy