________________
चन्द्रलेखाविजयप्रकरणम्]
तृतीयोऽङ्कः
चिटी -] २५हा हा एस पयंडो अगणंतो जीवियं पि मुहविवरे । . निवसइ छुरियाहत्थो अंतयसरिसस्स दुट्ठस्स ।। ३४ ।। (आया) चन्द्रलेखा - (श्रुत्वा सकम्पम्) २६अहो महंतो पमादो वट्टदि । (तत्त्वप्रपञ्चनं प्रति)
ता तुम्हे वि पसादं कडुय अणुगच्छद पियं जेण अयाले मह वेहव्वं न हवदि । जदो -
२७सरो वि ह एकंगो कह साहइ वंछियं (सय) कजं । पिच्छ नहंगणभूमिं अरुणसहायो परिक्कमइ ।। ३५ ॥ (आया)
"तदो सव्वधा अनुगिन्ह मं तुमं नियवयस्साणुगमणेन । तत्त्वप्रपञ्चन:- (स्वगतम्) यद्येवमपि स्थिते नैनमनुसरामि तदा प्रियस्य कुतश्चित्
प्रमादात् तत्र अत्याहिते संवृत्ते गुरूणां किमुत्तरं दातुं शक्नोमि । अथास्या एवं मुक्तायाः किमपि स्यात् ततः किं कार्यम् ? भवतु द्वयोरपि कार्ययोः युगपदापादने गरीयसि प्रयतितव्यम् । तन्म......(अत्र १०६ तमं पत्रं
त्रुटितमस्ति ।) विजयः- (स्वगतम्)] [सिंहो] हतः सपदि रक्षितमायुरस्या.
मित्रं हितं निकटवर्तिकृतं प्रियायाः । स्थानेऽपि तत्र गमनाय समुद्यतोऽस्मि,
तत् किञ्चिदस्ति न भयं मम दुनिमित्तात् ।।३६।। (वसन्ततिलका) (सम्मुखमागच्छन् मित्रमवलोक्य सविषादम्) हा हतोऽस्मि हतविधिना यदयं तां विमुच्य इह समायातः सर्वथैव गता सा कथं पुनरधिगम्या (खेदं नाटयति सगद्गदं वदति च) अयि ! ऋजुहृदय
तत्त्वप्रपञ्चन ! कुतस्तां विहाय मामनुगतोऽसि । २५. हा हा एष प्रचण्डः अगणयन् जीवितमपि मुखविवरे ।
निवसति छुरिकाहस्तः अन्तकसदृशस्य दुष्टस्य ।। २६. अहो महान् प्रमादो वर्त्तते ।.... तस्मात्
यूयमपि प्रसादं कृत्वा अनुगच्छत प्रियं येन
अकाले मम वैधव्यं न भवति । यतः २७. सूरोऽपि खलु एकाङ्गः कथं साधयति वाञ्छितं (स्वक)कार्यम्
पश्य नभोऽङ्गणभूमिमरुणसहायः परिक्रामति ।। २८. ततः सर्वथा अनुगृहाण मां त्वं निजवयस्यानुगमनेन ।
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org