________________
तृतीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम् (ततः प्रविशति विकटविवरद्वारेण निर्गत्य पातालवासी
कनकशू(चू)लनामा नागः) नागः- पश्यामि मित्रमहमत्र किमार्त्तचित्तं
स्त्यानास्यमेतदधिकं किमु मित्र मित्रम् । सख्या तया विरहितं किममुं वनान्तं तन्मा कथञ्चन विधिः प्रतिकूल एषु ।। ४६ ॥ (वसन्ततिलका)
(उपसप्य) स्वस्ति भवते परमबान्धवाय, मुच्यतां मोहः संदिश्यतां
कर्तव्यवस्तु । तत्त्वप्रपञ्चन:- (नेत्रे उन्मील्य प्रत्यभिज्ञाय) किं तदेव मित्रं क्षणान्तः सम्प्राप्तं वर्तते ?
(सानुनयम्) अपरहृदयमभिवादये भवन्तं, कच्चित् कुशलं युष्मभ्यम् । कनकचूलः- श्रीशेषराजप्रसादात् सदैव सुखमस्मासु, परं भवानेवंविधः सम्प्रति
दुनोति । तत् किमेतत् ? । तत्त्वप्रपञ्चन:- पातालवासी विकटाक्षनामा, द्विजोत्तमस्यास्य वधूं जहार । तदत्र कूपे विशतस्त्वयाध, पन्थाश्च कथ्यः स च दर्शनीयः ।। ४७ ॥
(उपजातिः।) कनकचूल:- पुराऽपि तावत् प्रहितेन मतिमसृणेन किञ्चित् ज्ञापितोऽभूवम् । एवमिति
चेत् तदिदानीमेव त्वर्यताम् । यावदेनं प्रापय्य जयोत्सवकथया
अभिनन्दयामि तावत् त्वया अस्यैव कूपस्य तटे स्थातव्यम् । विजयः सोत्साहं शकुनग्रन्थिं चेतसि बद्धवा संनह्यते, नागमनुसरति च । तत्त्वप्रपञ्चनः तथेति प्रतिपद्य उभौ विसृजति ।
(विजयः नागेन सह विश्रम्भालापान् कुर्वन् त्वरितपदं निष्क्रान्तः) चेटी - (सानुतापम्, स्वगतम्) २९किं कदं अमुणियपरमत्थमेदेण कजं जं भट्टिदारिया
एयागिणी कट्ठयरक्खसाउ अवहारिदा । एसो य विजइंदो सहत्थेणं य्येव दुट्ठसप्पस्स समप्पिदो । (प्रकाशम्) ३°भयवं फुडु अवियारिय कजमिमं अइमहंतमाचरियं ।
जं पढमं सो विहिणो दिन्ना एसो कलंतरे पच्छा ।। ४८ ॥ (आया) २९. किं कृतं अज्ञातपरमार्थमेतेन कार्यं यत् भर्तृदारिका एकाकिनी कष्टदरक्षसा अपहारिता । एष विजयेन्द्रः स्वहस्तेन दुष्टसर्पस्य समर्पितः ।
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org