________________
चन्द्रलेखाविजयप्रकरणम् ]
दूरं ध्वस्तसमस्तसंहततमः क्षोणीभृतां मूर्द्धनि
स्फूर्जद्भानुभरे मया कथमिव प्राणिष्यते सम्प्रति ।। ३४ ।। ( शार्दूल.) सिद्धशबरी - भ (ग) वति ! अतः परमसौ चन्द्रातपकदर्थिततनुरवश्यं प्राणांस्त्यक्ष्यति, तच्चिन्त्यतां कोऽप्युपायः ।
व्रतरक्षिता- (विमृश्य) देविप्रभे ! अस्मिन् माधवीलतानिकुञ्जन्तरे प्रविश्य रजनी - विरामेण एतदुपद्रवेभ्यः स्वरक्षाविधये स एवोपदेशः स्मरणीयः । देविप्रभा - (स्वगतम्) ३४ जुत्तं भणेदि भयवदी पुरावि एदेणोपदेसेण देवीसमासासणमेत्तं संवृत्तं, दाणिं तु जदि किंपि न हवसदि तदो अस्सि अंधयारे लुक्किदा एदाओ दुट्ठचंदातवाओ मा कहं खणं रक्खणमेत्तं हवेदि त्ति । (प्रकाशम्) भयवदि ! एवं करेमि । ( इति परिक्रामति स्खलितमभिनीय सानन्दम्) इत्थंधयारबहले कुंजे निविट्ठाए दुट्ठसप्पादि- उवद्दवो जदि हवदि ता एदं हदसरीरयं मुञ्चंतीए जधासमीहिदं फलदि । (कुञ्जान्तरे प्रविशति ) सिद्धशबरी - ( सचमत्कारम्) भगवति ! विजृम्भमाणोत्तालवेतालकिलकिलकोलाहलवाचालितसकलदिगन्तरालं बहलधूममण्डलीकवलीकृतनिखिलनक्षत्रमालं गगनान्तरालतरलचलदुष्टा (दुल्का ? ) वलीतुलितकल्पान्तकालोदितद्वादशमार्तण्डमण्डलं महाप्रलयसमयसमुद्यतभैरवोन्मुक्तविकटाट्टहाससमगर्जितरवेण बधिरितत्रिलोकीतलं प्रस्फुरत्फेनावलीकल्पतारकानिकरकलितगगनार्णवान्तर्विजृम्भमाणतेजःपुञ्जविडम्बितवाडवानलं किमिदं पुरः स्थम
वलोक्यते।
व्रतरक्षिता- (क्षणं विमृश्य )
[द्वितीयोऽङ्कः
एतत्तदेव गुरुभिः कथितं यदासीदस्य द्विजोत्तमशिशोरपहारहेतुः । रक्षो निजप्रियतमानिकृतिप्रगाढवैरं स्मरत्यहह
किं किमतः परं स्यात् || ३५ || (वसंततिलका) ३४. देवि . - युक्तं भणति भगवती, पुरापि एतेनोपदेशेन देवीसमाश्वासनमात्रं संवृत्तम् । इदानीं तु यदि किमपि न भविष्यति ततः अस्मिन् अन्धकारे मग्नाया एतस्मात् दुष्टचन्द्रातपात् मा कथं क्षणं रक्षणमात्रं भवेत् इति ।
भगवति ! एवं करोमि -
अत्रान्धफारबहले कुञ्ज निविष्टायाः दुष्टसर्पादि- उपद्रवो यदि भवति तदा हतशरीरकं मुञ्चन्त्याः यथासमीहितं फलति ।
Jain Education International
४१
For Private & Personal Use Only
www.jainelibrary.org