________________
द्वितीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
सा श्रद्धा स्थिरीकृता, सम्प्रति भाग्यैः कर्मभिः प्राप्ता, तान्येव स्थिरीकरणे यतिष्यन्ते इति निर्व्यापारा सती सुखं स्वपिहि, शालिनी च मानवी या हि भवती मनोरपत्यापत्यत्वात्, अनेन कुलमेव दृढत्वे हेतुः । इत्याह । सेव्या च सेवाओं च सर्वेषां त्वं जातेति किमिति प्रावृडश्रुपातैरात्मानं मलिनयसि ? यतो देवी साक्षाद् भवति मदीयपुत्रीत्वाच्चन्द्रकान्तोपलवन्निर्मला आ(भा) तव च वर्तते यतो धन्यैः श्रीशैषभट्टारकप्रभृतिभिः दृष्टा अन्यदर्शनमप्रयोजकमेव वर्तते सा च त्वमस्माकं मुदे हर्षाय संवृत्ताऽसीति यथा प्रेयसि मालिनीयसि तथै (वा)ऽमृतकुण्डीय(सि ?) प्रेयसि । चन्द्रीयसपत्नीजने कान्तीयपरिजने उपलीयदुर्जने राजायते तवात्मा स्थैमायते बन्धुवर्गः प्रेयते जन्तुसन्ततिः, बन्धूयते सपत्नीजनः, साधूयन्ते खलाः, परिवृढायते दुर्बलः, कृतार्थायते जीवलोकः, अभिमनायते शीलसम्पत्, सुखायते कुलं तव शीलमहिम्नेति । पूर्वं हि जातमालिन्या बहुलाघवा संवृत्ता पुनर्देव्या मार्जितकलङ्का भूयासा (भूयसां) कृतलाघवा स्वयं प्राप्तगौरवा मालिनीकृता ततः पित्रोरा
पादितलाघवा सर्वगुरुशालिनीत्वेन भाससे । (इत्युक्त्वा देवी तिरोदधे ।) व्रतरक्षिता- (देविप्रभां प्रति -) वत्से ! देवीवचःश्रवणात् स्वास्थ्यं गताऽसि उत न । देविप्रभा- (स्वगतम्) ३२आ ! जादे जामिणीविरामे कहं सत्था हविस्सं । (प्रकाशम्)
भयवदि ! सुत्थिदा सुत्थिदा | व्रतरक्षिता- (स्वगतम्) वीप्सया वदन्ती अद्यापि तदेव पतिविरहदुःखं वराकी प्रथयति
(प्रकाशम्) किं तमेव रजनीविरामे समीहसे ? देविप्रभा- ३३ [अध इं। अंतट्ठिदभावं] भयवदि य्येव मुणेदि (इति पादयोः पतति
क्षणान्तरे ऊर्द्धवालोकनेन गग[न]मध्यमध्यासीनं प्रालेयांशुमवलोक्य (त) थैव विरहदाहज्वरमनुभूय सत्रासम् संस्कृतमाश्रित्य) एतस्मिन्नुदयाचलावनितले रिङ्खत्यनुष्णद्युतौ । छायामण्डलवर्मणा वपुरिदं प्रच्छाद्य संरक्षितम् ।
३२. देवि. आः ! जाते यामिनीविरामे कथं स्वस्था भविष्यामि । (प्रकाशम्) भगवति ! __ सुस्थिता, सुस्थिता । - ३३. देवि. (अथ किम् । अन्तःस्थितभावम्) भगवती एव जानाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org