________________
चन्द्रलेखाविजयप्रकरणम्
[द्वितीयोऽङ्कः
श्रीशेषभट्टारकोऽपि तव कृत्येषु जागरूक एवेति । मुद्रिता शेषस्य निद्रा त्वया । त्वत्प्रयोजनव्यग्रतयाऽसौ गतनिद्र एव । वत्से ! किमिति शोकशडना आत्मानं कदर्थयसि ? तथा –
श्रद्धासारा मालिनी यस्य चित्ते भाग्यैः प्राप्ता शालिनी मानवी या । सेव्या देवी चन्द्रकान्तोपलाभा
धन्यैदृष्टा सा मुदे नोऽस्तु नित्यम् ॥ ३३ ॥ (शालिनी) देव्या देविप्रभायाश्चन्द्रलेखायाश्च कान्त प्रिय ! यस्य कस्यापि चित्ते पित्रादेः सपल्यादेर्वा मलिनात् मालिन्यादागता तत्र भवा वा श्रद्धा दुर्बुद्धिलक्षणा सकलङ्केयमिति सा असारा तुच्छैव को हि सकर्ण एवंविधां महासतीम् अकलङ्कां कलङ्कयति श्रीशेषभट्टारके विलसति सति । अभाग्यैरेव तैः सा प्राप्ता अभाग्यानि तेषामुपस्थितानि यद्यपीयं शापशालिनी न भवति उत्तमप्रकृतित्वात् । को हि पाप्मिनं विगतप्राणं शपति ? तत्पापप्रसङ्गात् । तथापि वयं सोढुमशक्तारः । अशोभां च प्राप्ता इयं बुद्धिः । असेव्या चेयं । तद्वन्तः प्रज्ञाशालिभिर्न सेवनीयाः ।
"न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाग्' भवति । अधन्या एव ता, न श्रद्धाव(व)तः पश्यन्ति, धनं लक्ष्मी ये नार्हन्ति, तत् संसर्गो हि धनापहारकारी आज्ञासारनृपतिविरुद्धसङ्गन्यायेन । यतः सा दुराशा नित्यमस्माकममोदायैव प्रभवति, उपलवदाभासते साऽसारत्वादिति, सा हि मानवीं याति, तया मानवी देवी शासिका सम्प्रति प्राप्ता इति मुञ्चत दुरध्यवसायं, आश्रयत देविप्रभा । अन्यथा न भवथेति एतेन देव्या लोकप्रत्यायनं विहितम् ।
सम्प्रति ताम् अनुसान्त्वयति 'श्रद्धासारे' त्यादि - श्रद्धावती भवती सैव च श्रद्धा तव सारो बलं स्थिरा च अत एव च अचित्ते गतप्रेम्णि प्रियतमे मालिनीयसि मालिन्यामिवाचरसि गृहीतमालामुपलभ्य मोदते जनः स्निह्यति च, देवता हि कुलस्त्रीणां भर्ता, निराश्रया च भक्तिः फलवती, सा च त्वय्येव, अत एव च श्रीशेषराजोऽपि यतते,
जन्मान्तरसञ्चितैरेव च भाग्यैः सा प्राप्यते, एतावती कालकलां स्वमहिम्ना * कुमारसंभवे - सर्ग ५-८३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org