SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् मदीय(याऽ)सुखेन ते मोदमापुरिति जनापवादमार्जनेन यथा तत्सुखं मय्येवावस्थितिमनुबध्नाति तथा यतस्व, तथा यथापूर्वं भवत्या अदेवि क्रीडितम् हन्त शेषाणां राज्ञां हृदयार्थं तथा ममापि सौभाग्यधारणाय अत गच्छ । (विरामाविवक्षाविवक्षाभ्यां सन्ध्यसन्धी) भागेति कोमलामन्त्रणे । सिद्धशबरी- (ऊर्द्धवमवलोक्य) भगवति ! किमेतत् द्वादशार्कमण्डलकल्पं गगनाङ्गणे ज्योतिरुज्जृम्भते ? | व्रतरक्षिता- वत्से तदेवैतत् गोत्रदैवतं मानवीसंज्ञकमेनां त्रातुमित एवाभिवर्तते । (ततः प्रविशत्याकाशयानेन मानवी 1) . मानवी- श्रुतशीलशालिनी आज्ञाव्रतधारिणी परोपकारकारिणी गुणकलाकलाप मालिनी आजन्मनो गुरुजनोपदिष्टमार्गानुवर्तिनी गुणैर्महत्तरा श्रीसुव्रता त्वं वत्से ! ___इति विद्धि । यतस्तवाखण्डितं विनयव्रतम्, अतिशायिनी गुरुभक्तिः, सेवनीया प्रवृत्तिः, माननीयं वचः, प्रगल्भा चेतोवृत्तिः, न्याय्यः परिवारः, आश्रयणीया जनस्य, भाविशुभोदर्का चेति, न गणनीयः प्राकृतजनासत्प्रलापः, न भेतव्यं क्षुद्रोपद्रवेभ्यः, यास्यन्त्युपद्रवाः शमम्, प्राप्स्यसि परां प्रतिष्ठाम्, लप्स्यसे पुत्रपौत्रैः सहाकलङ्कितसाम्राज्यं प्रियतममिति । (दविप्रभा श्रुत्वा आत्मानं चेतयते धैर्य चालम्बते) (देवी पुनः पठति) विगतसकलदोषं मुद्रिताशेषनिद्रं विलसदतुलकान्तिं चारुमान्यप्रतापम् । प्रमुदितसकलाशं दत्तविश्वप्रकाशं जनयसि सुतमेकं रत्नपुञ्ज सुवेषम् ।। ३१ ॥ (मालिनी) द्वितीयाया अभावे प्रथमा युक्ता सती त्वमप्येवंविधेति । विगतसकलदोषा मुद्रिताशेषनिद्रा विलसदतुलकान्तिश्चारुमान्यप्रतापा । प्रमुदितसकलाशा दत्तविश्वप्रकाशा जनयसि सुतमेका रत्नपुजा सुवेषा ।। ३२ ।। (मालिनी) (इति पूर्वोक्तदोषा देव्या क्रमेण निरस्ताः ।) त्वद्भक्तिसत्त्वाकृष्टचेताः ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy