________________
चन्द्रलेखाविजयप्रकरणम्]
[द्वितीयोऽङ्कः
इन्हिं तए कदपबोहवसाउ दूरं
तस्सिं गदे दिगुणदुक्खभरो फुरेइ ।। २८ ।। (वसन्ततिलका) व्रतरक्षिता- (स्वगतम्) ईदृश एवायं पतिविरहः, ततः किं कर्तव्यम् ? अन्तःस्मरणे
नास्ति उपयोगो देवताह्वानाय, मा कथञ्चन तद्दर्शनेन दुःखापनोदः स्यात् । (प्रकाशम्) वत्से ! विस्रब्धा भव | (निकटे उपवेश्य कर्णे एवमेव
मन्त्रमुपदिशति ।) देविप्रभा- (तथैव प्रतिपद्य ध्यानं नाटयति वदति च)
अजित तातमान विदितशेषराज
हृदयदेविभाग सुभग धेहि शं नः । अजिततातमान विदितशेषराज ।
- हृदयदेविभागसुभग धेहि शं नः ।।२९।। व्रतरक्षिता- (सचमत्कारम्) किमद्यापि तदैवतं चिरयति ? | सिद्धशबरी- भगवति !
मन्त्रन्यस्तहृदेषा ध्यानावेशात् पवित्रतनुलेखा ।
जल्पति किमविस्पष्टं तद्बोधय मां जवादद्य ॥ ३० ।। (आयर्या) व्रतरक्षिता- किं न बुध्यसे त्वम् ? एषा इष्टकुलदेवतां मानवीमुद्दिश्य यद् वदति तत्
शृणु - हे देवि मानवि जानाति भवती मदीयां चेतोवृत्तिं पतिव्रतात्वं चेति (कि)मिति मामुपेक्षसे, मार्जय कलङ्घ, प्रत्यायय पितरौ, आनय प्रियतमं ज्ञातपरमार्थं, अत गच्छ अञ्जितं मदीयस्नेहेन कुलीनत्वेन च,भाहि तव स्फीता न केनापि जीयते, वशीकुरु पितरौ येन निःप्रत्यहा भवतीमाराधयेयं, गतप्राणा सती प्राणविद् भवामि ? शीलं हि स्त्रीणां प्राणास्तत्प्रत्यायनेन शीलं ज्ञायते जनेन, यतो भवती दितानां खण्डितानां तिरस्कृतानां शेषाणां राज्ञां च हृदयं प्रयच्छति किं पुनर्ममाबलायाः कांदिशीकाया न प्रयच्छति, अजि(वि)भागेन च सर्वेषां सौभाग्यं दधासि किमिति मां दौर्भाग्यकलङ्कितां
विधत्से मदीयं च सुखम् अहीनां दुष्टानां कलोत्पादकानां संवृत्तं ३१. ध्यानोपनीतपतिना सह संगतायाः मूर्छायां यत् सुखम् इह किमपि आसीत् । इदानीं त्वया कृतप्रबोधवशात् दूरं तस्मिन् गते द्विगुणदुःखभरः स्फुरति ।।
Jain Education International,
For Private & Personal Use Only
www.jainelibrary.org