SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् गतप्रभा हे नरपते विद्याप्रभावात् पुनर्देविप्रभासती विशेषेण गताः प्रभा दीप्तयो यस्याः तीर्णाऽपायसागरं चन्द्रलेखां पुनः कां तारयितुं तत्र तिष्ठसि समीपस्थपरिरम्भणसुखा च अनेन भाविवियोगोऽपि सूचितः तारस्वरा प्रवदति स्मेति । किञ्च द्वयोरावयोर्विशेषो नास्ति विद्यापते इत्यादि हे पते पुरुषरक्षक ते तव सम्बन्धिनी विद्याधरी सततं त्वया विशेषेण युक्ता सम्बद्धा, अहं तु देविप्रभा सर्वदा त्वया सह वियुक्ता विरहिता, सावित्वात् पूर्वं अदेविप्रभा सती देविप्रभा सञ्जाता अहं तु देविप्रभा सती अदेविप्रभा संवृत्ता पित्रादिभिः परिहृतत्वात् । तथा सा त्वत्प्रसादात् । आगतप्रभा भास्वरशरीरा, अहं तु गतविभा विरहखिन्नत्वात् । सा न विशेषेण गतप्रभाशा अहं तु गतप्रभाशा । विभा शारीरं तेजः, प्रभा त्वान्तरं तेजोऽवष्टम्भनरूपं, प्रभावानयमिति, यथा गोबलीवर्दन्यायेन सा कान्तालिङ्गनावाप्तपरमानन्दत्वात् कांदिशीका अहं तु कांत (ता) रस्य परिरम्भणाद् भयद्रुता । काष्ठाप्राप्तसुखदुःखावस्थयोः समानत्वम् अन्तर्मुखा (ख) त्वात् । तथाहि - सुखमग्ना योगिनो न चेतयन्ते दुःखमग्नास्त्वचैतन्येन मूर्च्छागतवत् सा सुखमग्ना तारस्वरं प्रवदति । अहं तु दुःखमग्ना पूत्करोमि सा आगतचेतनाशा गतविघ्नत्वात् अहं तु प्राप्तविघ्नत्वात् गतजीविताशा, सा विदं ज्ञानं प्राप्ता विद्यानां सिद्धेः, अहं तु विदं सत्तां यता (तः) सत्तामात्रेणैव सम्प्रति तवाहं न ज्ञानरूपेण अथवा सा वेदनं विद्यारूपं ज्ञानं प्राप्ता अहं तु वेदनां दुःखं हस्त एव त्वया दग्धः । (क्षणं विमृश्य) आः स्नेहानुकम्पया मयाऽप्यनया इव प्रलपितं । गुरुपदद्वन्द्वनिषण्णमानसा - ( ससंभ्रममुत्थाय नमस्कारमनुस्मृत्य सलिलेनाभिषिच्य मूर्च्छापनोदं विधत्ते ।) देविप्रभा - ( उद्बुध्य) ३° भयवदि ! केणेदं कदं ? भोदीहि ? | जदो ३१ झाणोवणीदपइणा सह संगदाए मुच्छाहि (इ) जं मह सुहं इह किं पि आसि । ३०. देवि भगवति ! केनेदं कृतम् ? भवतीभिः ? यतः ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy