SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] [द्वितीयोऽङ्कः प्रलापान् कृतवती, सम्प्रति तु प्रलापकरणेऽप्यशक्ता वर्त्तते इत्यपि विद्याप्रभावेन जानानोऽपि किमिति उदास्ते ? | (सविस्मयम् ) न श्वेत इति, गतघृणैर्न भाव्यमिति अपब्रूहि ( ? ) तस्मात् हे (अ) स्वामिन् ! विप्र ! विप्रत्वं हि तव पल्या विना न भवति क्रियाभ्रंशादित्यस्मदुपरोधेनैव आपत आगच्छ सततं वियुक्ताया आदानाय ग्रहणाय देव्याः यतस्ते विद्याभा दीप्रा गततमस्काण्डा अत एव न विगता प्रभा तस्याः सम्प्रति आशयैव कान्तो भवान्, कथमन्यथा अस्मत्प्रार्थनां जिगीषसि कथं वा सा गतचेतनं गतस्नेहं आशास्ते अर[ण्य] कपर्यन्तस्य परिरम्भणेन कान्दिशीकं ईषत्तारस्वरं प्रलपिष्यति सा गतप्राणत्वादिति यावत् अद्यापि प्राणिति तावदागत्य संधारय, अथ प्रयोजनानि विधाय आगमिष्यामीति स्थिरीभूयाः कियन्तमपि कालमित्यप्यनालम्बनं सिद्धप्रयोजनत्वाद् विद्यायाः सिद्धेः चन्द्रलेखायाश्च प्राप्तेरित्याह । विद्यापते इति है पते रक्षक नरं - पुरुषविशेषं विद्या कर्त्री भवन्तं आप प्राप्तवती, विद्यायाः पूर्वं सिद्धत्वात्, ता एव त्वां मृगयन्ते, विद्या वा प्राप्नोषि साहसिकत्वात् उभयानुरागितामनेनाह, इदमेव च सिद्धेर्लिङ्गं यतस्ते देविन्या विलसनशीलया प्रभया आगता प्राप्ता प्रभा यया तया आविरक्षितम् सततं विस्तरप्राप्तं सर्वं वस्तु सर्वमपि तव प्रभया रक्ष्यते मुक्त्वा एकां मामिति गता मम प्रभाया आशा यतो अद्यापि वियुक्तैवाहं त्वया पक्षिभिश्च युक्ता, कान्तारसदृश एव कान्तो मम परिरम्भणमपि कांदिशीप्रकायं (कप्रायं ) भयद्रुतानामपि नष्टदिक्कतोपजायते, परिरम्भणेऽपि तदपि इति तथोच्यते, तारः स्वरो यत्र तत् प्रलपिता प्रलपामि शपामि यदि हि तन्नाभविष्यत्तदा सम्प्रति शोकशङ्करपि नाभविष्यत् । चकारस्य व्यवहितसम्बन्धात् इतः प्राप्तो नाशो मयेत्यनागतोऽप्यागतवदाचरेति किं प्रज्ञाशाली अ (आ) गमनप्रत्याशया मां कांदिशीकां विधत्ते स एव हि भगवान् ( भवान् ) अथ मा विषदः, चन्द्रलेखां विधाय आगमिष्यामि, तदप्युत्तरमात्रम् । सञ्जाता चन्द्रलेखा आगतचेतनाशा प्राप्तचैतन्या, नष्टा ब्रह्मराक्षसी, ते तव विद्याप्रभावात् । विद्यापो हि भवान् । पूर्वं हि देविप्रभा सा देवीत्वात् । पश्चाच्च राक्षसीशापाद् वित्वेन पक्षित्वेन युक्ता सततं सा याता हंसी जाता ततो Jain Education International ३५ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy