________________
द्वितीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
"एति जीवन्तमानन्दो नरं वर्षशतादपि" | (वाल्मीकि रामायणे)
तत् स्थिरा भव । (अजितदेवेत्यादि पञ्चपरमेष्ठिमन्त्रं कर्णे
निक्षिपति ।) देविप्रभा- (मनोवैक्लव्यादनाकर्णयन्ती इतस्ततो विलोक्य तथैव पतिमनुस्मरन्ती
विरहतापमनुभूय) २०तं कं पि चिंतेदु उवायं भयवदी जेण जणिं (दाणिं) य्येव रयणीविरामो भोदि । पिच्छ - २९घोरं कोसियघोस गलरवे फेरुंडफिक्कारिदे ढक्कासद्दसमे झडिल्लसरिसे चंदे करे मुग्गरे । पोम्मं धारिय रत्तिवायखिवणा बद्धायरो संपदं दुव्वारो रयणीबलेण मयणो केणेस वारिज्जए ? || २६ ॥ (शार्दूल.)
(इति मूर्छति) व्रतरक्षिता- सत्यं वक्ति वराकी, दुर्निषेध एव पञ्चेषुः । (प्रियविरहे प्रणय
वैक्लव्यमवलम्ब्य एतत्पतिमुद्दिश्य) विद्यापते ! नरपते ! सततं वियुक्ता
देविप्रभा गतविभा विगतप्रभाऽऽशा । कान्तारकान्तपरिरम्भणकान्दिशीका
तारस्वरं प्रलपिता गतचेतनाशा ॥ २७ ॥ (वसन्ततिलका) आत्मानमात्मनो भिन्नं मन्यमाना एषा तव निवेदयते हे विद्यानां स्वामिन् । नराणां रक्षक ! तव भार्या देविप्रभा त्वया वियुक्ता सती ज्योत्स्नाभिर्धवलिततनुरपि कान्दिशीकत्वेन विशेषेण गतप्रभैव वर्तते इति । विद्याप्रभावेन जानीत एव भवान् । नरपतित्वेन रक्षणशक्तिश्चेति किमिति पुरुषमात्रमपि हृदयसन्धारणाय न प्रेषयसि ? महती हि तवाशा एतस्या, देवता त्वम्, आपद्गतैरिष्टदेवतैव स्मर्यते कान्तारस्य कान्तं यत्
परिरम्भणं आलिङ्गनं तेन नष्टदिग्विभागा गतजीविताशा तारस्वरं २८, देवि. तत् किमपि चिन्तयतु उपायं भगवती
येन (इदानीम् एव रजनीविरामः भवति । पश्य २९. घोरं कौशिकघोषभुङ्गलरवे फेरुण्डफित्कारिते
ढक्काशब्दसमे जटिलसदृशे चन्द्रे करे मुद्गरे । पद्मं धृत्वा रात्रिवातक्षेपणात् बद्धादरः सांप्रतं दुर्वारः रजनीबलेन मदनः केनैष निषेध्यते (निवार्यते) ॥
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org