SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] [द्वितीयोऽङ्कः इतो रजनिमारुतः प्रतनुते वियोगानलं कथं बत ! मयैकया सुकरमत्र रक्षाव्रतम् ? || २२ ।। (पृथ्वी) (ततः प्रविशति व्रतरक्षिता) व्रतरक्षिता- (स्वगतम्) अस्याः समस्तविपदामिह रक्षणार्थ मेकः क्षमः स खलु कोऽपि गुरोः प्रभावः । .. अस्मादृशो यदि परं दिननिर्गमाय किञ्चिच्छुचां च शमनाय निमित्तमात्रम् ।। २३ ॥ (वसन्ततिलका) (परिक्रम्य पुरोऽवलोक्य तथामूर्छितां देविप्रभां मनःशून्यत्वेन विगतव्यापारां सिद्धशबरी च निरीक्ष्य) अयि ! किमिदमसमञ्जसं वर्तते ? | मृत्युतुलामधिरुढं रक्ष्यमिदं रक्षिताऽपि जडिताङ्गः । .... ननु बलवानपि लोके प्रभवति कर्तुं किमेकाकी ? || २४ ॥ (आया) ___अयि सिद्धशबरि ! कथमेवं स्थिताऽसि. ? | सिद्धशबरी- (ऊद्धर्वं विलोक्य) कथमेषा भगवती व्रतरक्षिता ? । (प्रणमति सास्रम्) श्वापदभयेन पार्वं क्षणमप्यस्या ममाविमुञ्चन्त्या : । शिशिरोपचारविधये जातमिदं मनसि वैधुर्यम् ।। २५ ॥ (आया) (व्रतरक्षिता उपसर्दी करकलितकमण्डलुजलेनाभिषिच्य मूमिपहरति ।) . (सिद्धशबरी-) सखि ! प्रणम भगवतीम् । निःशेषोऽपि दुःखप्राग्भारोऽमीषां दर्शनाद् विधटित एव । - (दविप्रभा कथं कथमप्युत्थाय प्रणमति ।) व्रतरक्षिता- स्वस्ति भवत्यै ।। देविप्रभा- (निःश्वस्य स्वगतम्) २७कुदो सत्थि मे ? । (प्रकाशम्) भयवदि ! तुम्हाण पसादेण एदस्स हदसरीयस्स चाएण पमुसिदे दुक्खपब्भारे जदि सुहं हवदि तदा सत्थि मे । व्रतरक्षिता- वत्से मा विषदः, दुरतिक्रमः कर्मानुबन्धः । यथातथापि जीवितमेव श्रेयः किं न श्रुतम् ? २७. देवि. कुतः स्वस्ति मे ? (प्रकाशम्) भगवति ! युष्माकं प्रसादेन एतस्य हतशरीरस्य त्यागेन प्रमुषिते दुःखप्राग्भारे यदि सुखं भवति तदा स्वस्ति मे । .. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy