________________
द्वितीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
सिद्धशबरी- (सविस्मयम्) किमुक्तं भगवत्या, कोऽयमत्र द्विजशिशुः, किं च रक्षः,
का च प्रिया, कश्च परिभवो, यस्मादस्य प्रकोपः । व्रतरक्षिता- (सहासम्)अयि ! न जानाति भवती वृत्तान्तमिमम् ? । अवधेहि अस्या
एव देविप्रभाया भर्ना विजयेन तैस्तैर्गुरुप्रयुक्तप्रयोगैः पुराऽस्य विकटाक्षनाम्नो राक्षसस्य दयिताया आहितातमाया हंसीग्रसनोद्यताया नासाच्छेदेन चन्द्रलेखाप्राप्तौ महान् परिभवः समजनि तदयमस्य सम्प्रति
समुत्पन्नशिशो विचक्रवर्तिपदस्यापहारमकार्षीत् । सिद्धशबरी- किं किमियं प्रसूता ? | व्रतरक्षिता- अथ किम् अत्रैवान्तरे नभस्तलविजृम्भमाणदुन्दुभिध्वनिरपि न श्रुतः । सिद्धशबरी- एतदाश्वासनोपायं चिन्तयन्त्या मनोवैयग्र्यात् न लक्षितः । (मुहूर्तमेकं . विचिन्त्य) भगवति ! स्ववितर्कं निवेदयामि, यद्येतदेवमेव तदा परित्यक्तमेव ..
जीवितमनया । व्रतरक्षिता- मैवम् ।
पुत्रोत्पत्तिसुखानन्दमिलिताक्षी तपस्विनी । जडाङ्गीयमिदं कर्म क्रूरं नाद्यापि बुध्यते ॥ ३६ ।।
पा ॥ २६ ॥ (अनुष्ट्रप) सिद्धशबरी- तर्हि समाश्वासयितुमेनां किमद्यापि विलम्ब्यते ।
(इति परिक्रम्य कुंजान्तरे प्रवेशं नाटयतः । तां तथा दृष्ट्वा) सिद्धशबरी- (सदैन्यम्) भगवति ! किं भविष्यति ? चिन्त्यतां कश्चन
सम्बोधनोपायः । देविप्रभा- (चेतनामवाप्य । ऊर्द्धवालोकनेन व्रतरक्षितामुपलक्ष्य सहर्षम्) ३५भयवदि !
फलिदं तत्तभोदीए पसादेण, विगलिदो सव्वो वि दुखपब्भारो पत्तो सयलसुहाणं पि निही पुत्तो । पिच्छीयदु (इत्युक्त्वा पार्श्वमवलोक्य पुत्रमपश्यन्ती
सोरस्ताङ) हा हडम्हि मंदभाइणी (इति मूर्च्छति) सिद्धशबरी वल्कलाञ्चलेनोपवीजयति । ३५. देवि.- भगवति ! फलितं तत्र भवत्याः प्रसादेन विगलितः सर्वोऽपि दुःखप्राग्भारः प्राप्तः सकलसुखानामपि निधिः पुत्रः । पश्यतु (......) सोरस्ताडं हा हताऽस्मि मन्दभागिनी ।
४२
'Jain Education International
For Private & Personal Use Only
www.jainelibrary.org