SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् [द्वितीयोऽङ्कः देविप्रभा- (निपुणं निरूप्य) सखि ! भ्रान्ताऽस्मि । (परिक्रम्य सरसीषु परापर तटसंश्रयणेन वियुज्यमानचक्रवाकमिथुनमवलोक्य सकम्पमूर्द्धवनाटितकेन) २°सहि ! रक्खेध मं पयंडचंडंसुमंडलकवलणेण नीसेसं पि तिहुयणं नासयंतीओ इमाओ संझारक्खसीओ। सिद्धशबरी- (स्वगतम्) ईदृश्येवासौ सन्ध्या । तथाहि - पुष्यन्ती रजनीचरान् पिदधती ध्वान्तेन दिग्मंडलं तं पञ्चेषुभटं रुतेन वयसामाऽऽसूत्रयन्ती पुरः । जातेयं न हि कुत्र कुत्र तपनग्रासेण भीमारुणा यस्यास्त्रातुमिव स्वमङ्ग जगता बद्धाञ्जलि स्थीयते ।। १४ ॥ (शार्दूलविक्रीडितम्) (प्रकाशम्-अनुकम्प्य) मा भैषीः, नवहस्तादपि प्रासादणिक(?) परिवृत्त्या न किञ्चिद्भयमावहति जनः । स्थिरा भव, गतप्राणाऽसौ । देविप्रभा- २'कुदो गदप्पाणा सप्पिणीव पसवभयंकरि त्ति मुणिमो ! । सिद्धशवरी- (स्वगतम्) आः शान्तं (पापम्) ___*प्रसवेन चन्द्रातपतारादिभ्यो भयमाशङ्कमाना अस्मादेव गर्भजननात् सर्वेषामपि भयसूचनानुयायिवचनेनाकुलयत्यस्मन्मनः । (प्रकाशं ससान्त्वनम् ।) किमाकुलाऽसि न श्रुतं त्वयैतद् यत् समभिपतद्बलस्य मुखस्थितबलविनिर्जये पाश्चात्यस्य कृत एव पराजयः । देविप्रभा- २२एवं भोदु तुम्हाणं पणय नासी] त्रासि एसो सो संपत्तो संझासप्पिणीए गरलुग्गारलित्तलहलहंतदारुणजीहासरिसेहिं केदुपुंजेहिं नीसेसं पि अम्हारिसजणं भीसयमाणो रयणीयरच्छलेन दुपसवो, ता कहं भोदव्वं ? दुरदिक्कमो. एसो, न तये न मये न जु अन्नेहिं वि जं द(ट्ठि-)दव्यो | पिच्छ - * रात्रिप्रसवेन २०. सखि ! रक्ष मां प्रचण्डचण्डांशुमंडलकवलनेन निःशेषमपि त्रिभुवनं नाशयन्त्या सन्ध्या राक्षस्याः । २१. देवि - कुतः गतप्राणा सर्पिणीव प्रसवभयंकरीति जानीमः । . २२. देवि - एवं भवतु, युष्माकं प्रणय [नाशी] त्रासी एष स सम्प्राप्तः सन्ध्यासर्पिण्या गरलोद्गारलिप्तलहलहन्तदारुणजिह्वासदृशैः केतुपुजैः निःशेषमपि अस्मादृगुजनं भापयन् रजनीकरच्छलेन द्विद्विप्रसवः (चन्द्रः), ततः कथं भवितव्यम् ? दुरतिक्रम एष, न त्वया, न मया नैवान्यैरपि यद् दृष्टव्यः पश्य - २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy