________________
द्वितीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
२३ उम्मीलिदकुमुएहिं एस हसंतो रहंगमिहुणाई । दुक्खिददुक्खेण सुही निक्कीवहिययो कयंता वि ।। १५ ॥ (आय) (विरहवेदनामनुभूय) २०जं दीणं विरहिजणं विरमइ न खणं पि एस मारतो । । तेणं कलंकपंको हरगंगासंगमे वि न हु गलिओ ।। १६ ।। (गीतिः) (क्रमेण अवनितलमाक्रामन्तमिन्दुमवलोक्य सप्रश्रयम्) चन्द्रमानयागविदित नाथमान यात तात मानहृदय धेहि शं नः ।
चन्द्रमानयागविदितनाथमान यात तात मानहृदय धेहि शं नः ।।१७।। सिद्धशबरी- अहो गाम्भीर्यमुक्तेः, यत् पदैरनुघुष्टस्याप्यर्थस्य विचारघटनया पदपङ्क्तिः
परं रसमातनोति । तथाहि -
हे चन्द्र ! मानय मां, मा गा दूरं कलङ्कपङ्कमग्नां दृष्ट्वा, समानधर्मो हि भवान् अर्थान्तरसङ्क्रमिततत्तेन(तत्त्वेन ?) चन्द्रमा भवान् आह्लादकः, अमृतमयत्वेन प्राणदः, माने पूजायां हृदयं तव सर्वदा, किमिति मानपूज्यां करोषि ? अनुचितमिदं पितुः पिता हि भवान् नाथमानैरस्मादृशैः यातः प्राप्तोऽसि कृतार्थमकृत्वा कुत्र यास्यसि । किञ्च मां विना न यागे विदितो भवसि, पल्या विना यागाभावादिति, स्वार्थेनापि माननीयाऽहं, तथा धेहि मां शीलात्मनि यथा सर्वेषामस्माकं सुखमुपजायते इति, यदि यागसुखं विदितं वाञ्छसि तदा अनया ममाऽऽगोमार्जनरूपया गत्या आनय काठिन्येनाऽगवविदितं नाथं मम प्रियतमं कथमन्यथा अरण्यान्यां त्यक्तामप्युपेक्षते, चन्द्र ! ममाह्लादक मा मा(मां) कदर्थनाय दूरं नय येन ईषदपि विस्मृता तमा शोकलक्षणा न भवति । हे मम हृदयसन्धारक! नो-नरेन्द्र ! अस्माकं सुखं गच्छ तत्सुखं गमनेन प्राप्नुहि, किमतः परं तुभ्यं प्रददे अहयो यथामतसुखं न प्राप्नुवन्तीत्येतदर्थं । पूर्वं हि ते मां कलङ्कितां विधाय मत् (अ) सुखेन सुखमापुरिति । भव - (भय ?) २ सुखं तेभ्यो गृहीत्वात्मनि धारयत
तच्च मम कलङ्कमावर्जनेन भवतीति एवमुन्मदे वचनेषु व्याख्यार्थमवगम्य २३. उन्मीलितकुमुदैरेष हसन् रथाङ्गमिथुनानि ।
दुःखितदुःखेन सुखी निष्कृपहृदयः कृतान्तादपि ।। १५ ।। २४. यद् दीनं विरहिजनं विरमति न क्षणमपि एष मारयन् ।
तेन कलङ्कपङ्कः हरगंगासंगमेऽपि न खलु गलितः ॥ १६ ॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org