SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] [प्रथमोऽङ्कः हंसी (तं तथा दृष्ट्वा सहर्षम् ) ३१ सहि ! तत्त्ववाइणी भोदी दाणि य्येव एसो मह हिययकमलवियासणसूरो संपत्तो । पिच्छ - ३२ लायण्णलच्छिविणिभच्छियकाममेणं दठूण वल्लहजणं सहि ! तक्खणेण । आणंदसायरजले अइ बुड्डियाये को को रसो हि समुल्लसियो मणे मे ॥ ५६ ॥ (वसन्ततिलका) विजयः- (तत्त्वप्रपञ्चनं प्रति ) सखे ! दिशि दिशि प्रसरद्विशालधूममण्डली ध्यामलितसकलदिगन्तरालम्, करालविलसज्ज्वालावलीकवलितविततनभ स्तलम्, अतिप्रबलझञ्झानिलसमुन्मूलितनिखिलपादपकुलम्, अत्यन्ततार फेत्कारनिकरबधिरितत्रिलोकीतलम्, स्फारझात्कारोत्तालतालाकाण्डताण्डवितप्रचण्डक्षयकालं विकटशिलापटलसङ्घट्टसमुल्लसितकिमेतत् पुरो दृश्यते ? | तत्त्वप्रपञ्चनः- पूर्ववैरानुबन्धेन पातालादाहितातमा । हंसीरूपामिमां हन्तुं राक्षसीयमिहोद्यता ।। ५७ ॥ (अनुष्टुप्) तदेनामुद्दामज्वलनपटलीभीषणदृशं पराकृत्य क्रूरां निजभुजबलादद्य झटिति । गुरोः पादद्वन्द्वं मनसि विशदे बिभ्रदनिशं, (शिखरिणी) लभस्व त्वं हंसीमधिगतपुरन्ध्रीतनुमिमाम् ॥ ५८ ॥ (विजयः तथैव प्रतिपद्य सरस्यभिमुखं परिक्रम्य बद्धपरिकरः " अजितदेव” इत्यादि मन्त्रं स्मरन् राक्षसीसन्त्रासाय सरभसं दत्तझम्पः सलिलान्तः प्रविशति ।) तत्त्वप्रपञ्चनः- (कलकलमाकण्य) आः ! किं भविष्यति ? (गुरुचरणयुगलमनुस्मृत्य ) मनुष्यस्यापि तद्दिव्यसुखसंसिद्धयेऽधुना । विघ्नध्वंसाय भवताद् गुरूणां मतिवैभवम् ॥ ५९ ॥ ३१. सखि ! तथ्यवादिनी भवती, इदानीमेव मम हृदयकमलविकासनसूर्यः संप्राप्तः । पश्य ३२. लावण्यलक्ष्मीविनिर्भर्सितकाममेनं, दृष्ट्वा वल्लभजनं सखि ! तत्क्षणेन । आनन्दसागरजले अतिब्रुडितायाः (अतिमग्नायाः), कः को रसो नहि समुल्लसितो मनसि मे ॥ ५६ ॥ Jain Education International २१ For Private & Personal Use Only (अनुष्टुप) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy