SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः: ] तपस्विनं मोचयताऽपि अतीवबीभत्सः समुपक्रान्तः ? । तथाहि विकटकरजकोटीपाटितोत्तुङ्गकुम्भ स्थलगलदुरुमुक्ताकल्पितस्वस्तिकश्रीः । क्षतजशबलिताङ्गो वीरलक्ष्म्याऽनुयातः (ततः प्रविशति विजय : 1) स्मरति न तमनिन्द्यं सिद्धविद्योपदेशम् || ५१ ।। (मालिनी) हंसी- ( अपश्यन्ती) आः ! २७ अच्चाहिंद जादं । (इत्युक्त्वा मूर्च्छति । चक्रवाकीसमाश्वासनेन मूर्च्छाविराममनुभूय ) २८ सहि किं एदं ? २९ पिच्छ वयंसि ! विवायं पुव्वकयकम्मणो [धुवं] सिविणयलद्धो व्व पिओ तक्खणदिट्ठो व्व नट्ठो व्व ॥ (इत्युक्त्वा पुनर्मूर्च्छति । क्षणेन चेतनां प्राप्य) ३० देवि ! अजिअबले ! दंसेहि पुणो वि तं । (चक्रवाकीं प्रति) सहि ! आणेहं तं रक्खेह मं जीविदसंसयादो | ( इत्युक्त्वा पादयोः पतति ) चक्रवाकी- सखि ! मा विषदः । भविष्यत्यचिरेणैव भक्त्या भर्तृसङ्गमः । सङ्गमंय कृतोत्साहा यस्याः सा सिद्धदेवता ॥ ५३ ॥ (अनुष्टुपू) तस्या एव पदाम्भोजप्रसादवशतः सखि ! समीहितपदप्राप्त्या विजयालङ्कृता भव ।। ५४ ॥ विजयः- (तत्त्वप्रपञ्चनं प्रति) मृत्योर्मुखाद्यतिरसौ सहसैव कृष्टः सन्त्रासितः स च गजो भुजविक्रमेण । एषाऽपि सा सुखनिधिः पुनरेव दृष्टा, Jain Education International २७. अत्याहितं (प्राणहानिसंभवं ) जातम् । २८. सखि ! किम् एतत् ? २९. पश्य वयस्ये विपाकं पूर्वकृतकर्मणो [ ध्रुवं] मम । स्वप्नकलब्ध इव प्रियः, तत्क्षणदृष्ट इव नष्ट इव ।। ५२ ।। ३०. देवि ! अजितबले ! दर्शय पुनरपि तम् । सखि ! आनय तं रक्षत मां जीवितसंशयात् । [चन्द्रलेखाविजयप्रकरणम् सर्वोऽप्ययं विजयते स गुरुप्रसादः ॥ ५५ ॥ २० For Private & Personal Use Only - मज्झ । ५२ ॥ ( आर्या) (अनुष्टुप्) (युग्मम्) (वसन्ततिलका) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy