SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] [प्रथमोऽङ्कः तदेवं येनेदं युगपदभितः पुष्पधनुषा द्वयं चक्रे चित्रार्पितमिव तमेकं नमत रे ।। ४७ ।। (शिखरिणी) तत्त्वप्रपञ्चनः- (हंस्यास्तदेकाग्रतां निरीक्ष्य) नीर-क्षीरविवेकमेकमपरे जल्पन्ति हंसान्वये तां निःशेषरसाद्भुतप्रकटनां त्वत्रैव वीक्षामहे । पश्यैतस्य विशुद्धमानसमिदं निर्विश्य हंसी रसं, कं कं न प्रकटीकरोति विमतव्यापारभाराऽप्यसौ ? || ४८ ।। (शार्दूलविक्रीडितम्) (ऊर्वमवलोक्य) किं चित्रं नववल्लभा विरहजप्रो(प्रौ)ढानलोम्भित ज्वालाजालकरालिताः परनिजप्लोषं समातन्वते । यत् प्राचीचरितं स्मरन्नतिजवात् तेजो विमुञ्चन्नसौ, मध्यस्थोऽपि तनोति हन्त सविता सन्तापमत्युल्वणम् ।। ४९ ।। (शार्दूलविक्रीडितम्) तदयं समुपस्थितो मध्याह्नसमयः । (मतिमसृणं प्रति) वत्स ! त्वरयतु भवान् कनकचम्पककुसुमाहरणाय, यथा देवार्चनविधिर्विधीयते । (इत्युक्त्वा विसृजति ।) (विजयो मध्याह्नवर्णनोदितमनुस्मृत्य औत्सुक्यं नाटयति ।) (नेपथ्ये) २८दसणवलिदसुंडो एस चंडो करिंदो, ___ कुसुममवचिणंतं मारिदुं मं पयट्टो । पबलनियभुयेहिं रक्खिदासेसलोओ, ववसदु विजओ सो रक्खिदुं रक्खणीयं ।। ५० ॥ (मालिनी) विजयः- (आकण्य) आः ! क एष मयि विश्वोपकारप्रवणान्तःकरणे तपस्विनमेन मभिभवति ? । (इति पटीक्षेपेण सरभसं हस्तिनोऽभिमुखमभिधावति ।) तत्त्वप्रपञ्चन:- (तत्तथा विभाव्य) अहह ! महदसमञ्जसं समापतितम्, यदमुना २८. दशनवलितशुण्ड एष चण्डः करीन्द्रः, कुसुममवचिन्वन्तं मारयितुं मां प्रवृत्तः । प्रबलनिजभुजाभ्यां रक्षिताशेषलोकः, व्यवस्यतु विजयः स रक्षितुं रक्षणीयम् ॥ ५० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy