SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् [प्रथमोऽङ्कः अपि च'पृथुलकुचा सद्वंशा, चन्दनतिलका (लका)वलीकलिता । नवपत्रवल्लिललिता कस्य न हृदयं हरत्येषा ? || ३८ ॥ (आय) (ततः प्रविशति यथानिर्दिष्टा राजहंसी चक्रवाकी च ।) हंसी - २४पियसहि ! तं वेयड्ढगिरीनिवासमसमं विजावहारेण तं, लायण्णामयपुण्णमंगलदियं चत्तण तिस्सा भिया । एदस्सिं जडसंगमेण वरलारु (भू)एण कालो मये, दुट्ठो निग्गमिदो तहावि स पई पत्तो न चित्ते ठिदो ।। ३९ ॥ (शार्दूल.) चक्रवाकी - सखि ! विस्रब्धा भव । समुपस्थितः स समयः, प्राप्स्यसि मनोऽ भिलषितं पतिम् । यतःसतां तत्त्वोपदेशेन कष्टं यदनुभूयते ।। तदिष्टफलसम्पत्तेर्नियाजं बीजमर्व्यते ॥ ४० ॥ (अनुष्टुप्) विजयः- (शुभनिमित्तमनुभूय) दक्षिणाक्षिभुजस्पन्दो लाभमद्भुतवस्तुनः । सूचयत्येष निःशेषविपक्षविजयेन मे ॥ ४१ ॥ (अनुष्टुप) (पुरोऽवलोक्य हंसीं दृष्ट्वा) पक्षद्वन्द्वममन्दमुज्वलमुरः स्फारोन्नतं तन्वती, ___ मन्दं मन्दमनिन्धकाञ्चनरुचिस्पर्धि क्षिपन्ती पदम् । उज्जृम्भाम्बुजरेणुभिर्विदधती कौसुम्भवासःश्रियं, पाथःकेलिरता मनो हरति मे कान्तेव दूरादियम् ।। ४२ ॥ (शार्दूल) २४. प्रियसखि ! तं वैताढ्यगिरिनिवासमसमं विद्यापहारेण तं, लावण्यामृतपुण्यमङ्गलद्विजं त्यक्त्वा तस्या भिया । एतस्मिन् जडसंगमेन वरलारूपेण कालो मया, दुष्टो निर्गमितः तथापि स पतिः प्राप्तो न चित्ते स्थितः ।। ३९ ॥ 'वनराजीपक्षे - पृथु-लकुचा - पृथवः लकुचाः बृहत्कायफलविशेषाः यस्यां सा | सदशा - सन्तः शोभनाः वंशाः यस्यां सा । चन्दनतिलकालकावलीकलिता - - चन्दनाश्च तिलकाश्च चन्दनतिलकाः अलकाः कुन्तलाः, चन्दनतिलका अलका इवेति चन्दनतिलकावली, तया कलिता इति । नवपत्रवल्लिकलिता - नवानि-पत्राणि यासु ता वल्लयस्ताभिः कलिता । लकुचं पृथु पनसम् । १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy