SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् हे साधुपरमेष्ठिन् मानय नः - अस्मान् यथा 'शं सुखं भवति । भाग्याः स(से)व्या हि भवन्तो, यत इति एतान् पञ्च परमेष्ठिन एकीकृत्य मनस्येकत्वेनाह परमेष्ठिन् ! याहि मम चेतसि यथा सर्वार्थसिद्धिनां प्रभुर्जायेय । [५] (इति व्याख्यामधिगम्य सचमत्कारम्) [विजयः-] अये ! अपरहृदयबन्धो ! कथयामि किञ्चित् - अयं पञ्चपरमेष्ठि नमस्कारः श्रुतपूर्व इव मे, परं क्वापि ? कुतोऽपि ? इति न वेद्मि । तत्त्वप्रपञ्चन:- तदपि गुरुप्रसादात् समधिगतमेवास्ति । विभावय - प्राचीनवन्मत्स्मृतिरेव सैषा, न सम्प्रति क्वापि कुतोऽपि बोधः । श्लोकं तवातः स्मरतः सदाऽमुं, विघ्नापनोदेन फलन्तु कामाः ।। ३१ ।। (उपजाति) विजयः- किमस्यापि स्मरणे विघ्नावकाशः यदपनोदं विधास्यति । तत्त्वप्रपञ्चनः- ब्रह्मन् ! सर्वत्राप्यस्खलितगतिर्विजसङ्घातः । यतः पूज्यनामधेयानां श्रीवर्द्धमान-स्वामिप्रमुखाणामपि तथा तथाऽयं दुनिषेधः समजनि, एवमेवं च स्मरतां सहसैव व्यलीयत । विजयः- एवं गुरूपदेशो यदि तदिदमित ऊर्वमित्थं व्यवसीयते (अजितदेवेत्यादि पठति च ध्यायति च विरतसर्वव्यापारः) तत्त्वप्रपञ्चनः- तं तथा दृष्ट्वा (स्वगतम्) सम्भाषणेऽपि शयनेऽपि विबोधनेऽपि, सत्सङ्गमेऽपि विजनेऽपि वनान्तरेऽपि । क्षुत्पीडितोऽपि तृषितोऽपि सुखं गतोऽपि, . तनिष्ठबुद्धिरजितेति वदत्यजस्रम् ।। ३२ ॥ (वसन्ततिलका) अपि चनवोन्मीलनीलोत्पलदलदृशां विभ्रमशतं, ___ पराकृत्य त्यक्त्वा तृणमिव तदैश्वर्यमसमम् । बहु ब्रूमः किं वा सकलविषयवातविरतो, गतद्वैतं पश्यत्यजितमयमेथ(ष) त्रिभुवनम् ।। ३३ ।। (शिखरिणी) १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy