________________
चन्द्रलेखाविजयप्रकरणम्]
[प्रथमोऽङ्कः
इत्यजितः, अर्हत्परमेष्ठी, सम्बोधनाद्, विध्यवसायाद् मामप्यजितं कुरु । देवादिकृताष्टमहाप्रातिहार्यैरणिमादिभिः ऋद्धिभिर्वा अमिताऽप्रतिपात्यतिशयज्ञानैश्वर्येण च ख्यातत्वाद् विदितः । अत्रापि विध्यवसायात् तयाप्तिविधानमवसीयते । एवमन्यत्रापि ज्ञेयम् । तथा सुभगः आतिशायिको हि तव सौभाग्यमहिमा, यतस्तव सन्निधाने तिर्यञ्चोऽपि षाण्मासिकी क्षुधं पिपासां च न वेदयन्ते, तृप्ताश्च भवन्ति । हृदयं च सर्वेषां, न हि कस्यापि भवन्तं प्रति गोपनीयमस्ति, वाचाऽपि यद् वक्तुं न शक्यते 'भयवं ! १९जा सा सा सा" इति तदपि ज्ञापयन्ति केनाप्याकारविशेषेणेति अजितवदाचरेति* । [१]
तथा दीव्यति - क्रीडति कर्मपारतन्त्र्याभावात् स्वस्मिन्नात्मस्वरूपे ज्ञानात्मके इति 'देव ! परमेष्ठिन् ! निरुपमाव्याबाधपरमनिर्वृतिमय ! आत्मलाभात्मकसिद्धिसौधस्वामित्वान्नाथ ! नाग ! प्रधानस्वामिन् ! नागच्छसि कर्मविलयादिहेति वा नाग ! याहि मम चेतसि यथा त्वां शरणं
प्रपद्ये इत्यर्थः [२] । चन्दनाद् - आह्लादनात् 'चन्द्र !' आचार्य परमेष्ठिन् ! अनाचारप्रवृत्तिदिग्धं जनं
अमृतमयैर्वचोंऽशुभिरालादयसि मार्गं च दर्शयसि, अज्ञानतमोऽपगमेनेति चन्द्र ! आचार्यपरमेष्ठिम् ! यात प्राप्त अज्ञानतमस्काण्डदिग्धेन मया अत एव [याग] पूज्य ! पूज्यते ह्याचार्यपरमेष्ठी मुमुक्षुभिः । 'पाहि' माम्
अनुगृहाण, पूज्यानपि पासि दुर्गतौ निमज्जत इति वा [३] । [शेष]- शेषयसि- पृथक्करोषि शिष्यवर्ग कुशास्त्रेभ्यः शास्त्रप्रणयनेनेति
उपाध्यायपरमेष्ठिन् ! अत एव तातोऽसि पितृकल्पत्वाद् देविनःक्रीडाशीलान् मार्गे दधासि इति देविध, इहि-आगच्छ मम चेतसि यथा ज्ञानी जायेय [४] |
राजन्ते स्वे ब्रह्मणि राजानः साधु परमेष्ठिनः १८. अमित:- अनश्वरः- मा हिंसायाम, मितः- नष्टः- अमितः अनष्टः १९. इयं कथा द्वितीये परिशिष्टे पठनीया । " अत्र अजितदेव इति श्लोकस्थ व्याख्याने अर्हत्परमेष्ठिनः, सिद्धपरमेष्ठिनः, आचार्यपरमेष्ठिनः
च चत्वारि विशेषणानि व्याख्यातानि, परम् उपाध्यायपरमेष्ठिनः व्याख्याने तृतीयपादस्थं .. याग इति विशेषणं व्याख्यातं. न दृश्यते, तत् विचारणीयमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org