SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् कूजद्विहङ्गसरयूरशनामयोध्या, स्मृत्वा तदद्य हृदयं विदलत्यकाण्डे ।। २५ ॥ (वसन्ततिलका) कान्तावियोगवडवानललीढगर्भे प्रोद्दामजागरमहामकरप्रकीर्णे । चिन्तातरङ्गवति दुःखमहार्णवेऽस्मिन्, ___ मग्नस्य मे विगलितः स मतिप्रपञ्चः ।। २६ ॥ (वसन्ततिलका) (अग्रतो विलोक्य) कथं तत्त्वप्रपञ्चन, वयस्य ! देशान्तरवियोगाग्नितप्तस्य मे भवद्दर्शनममृतवृष्टिसेकमनुकरोति । तत्त्वप्रपञ्चन:- सखे ! त्वां प्रति सुखाय परमद्धर्यै पाश्चात्यकुशलप्रवृत्त्या महाफलाय च तेषामेव पूज्यनामधेयानां प्रयोगो यतते । पश्य - कस्तैः समस्त्रिजगति प्रथितप्रभावो, येषां पदाम्बुजरजःकणजः प्रसादः । भक्तेषु सङ्क्रमितसिद्धिपुरन्ध्रिवर्ग - रक्षाविधौ विजयते नवसौविदल्लः ॥ २७ ॥ (वसन्ततिलका) विजयः- सखे ! आदिष्टं मम किञ्चित् तैः त्रिजगति विख्यातमहिमभिर्गुरुभिः ? । तत्त्वप्रपञ्चनः- अथ किम् । (पत्रमर्पयति ।) विजयः- (गृहीत्वा वाचयति) अजित ! देव ! चन्द्र ! शेष ! राज ! विदित ! नाथ ! यात ! तात ! मान । सुभग ! नाग ! याग ! देविभाग हृदय याहि पाहि धेहि शं नः ॥२८॥ .. (विभाव्य) सखे ! अस्य निःशेषमन्त्रमयनिर्मिताक्षरपङ्क्तेः साक्षाद्देवतामुखोद्गीर्णस्य तत्त्वार्थमवगच्छसि ? तत्त्वप्रपचनः- बाढं, जानामि । शृणु - अर्हत्सिद्धाऽऽचार्योपाध्यायानामशेषसाधूनाम् । पञ्चानामपि वदति प्रणतिं परमेष्ठिनामेषः ॥ २९ ॥ (आया) यस्यैषा पदपङ्क्तिः सहस्रभङ्गीभिरुल्लसन्तीह । प्रथयति सहस्रवदनं गुणसदनं स्वस्य सवितारम् ।। ३० ।। (आया) विजयः- अयि ! एवमर्थं पदान्यप्युद्गिरन्ति ? उत गुरूपदेशविचारः ?। तत्त्वप्रपञ्चनः- मैवम् । शृणु - रागादिभिरान्तरैर्बाद्यैश्च देवादिमिः शत्रुभिर्नाजीयत १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy