SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] [प्रथमोऽङ्कः नटी - (सविस्मयम्) "एदं पि मह पडिबोहणं तारिसं य्येव इति ( सकौतुकम् ) अवि एदस्स कइणो पबंधेण रंजिदव्वा एसा सहा । सूत्रधारः - यो भाष्यार्णवमन्थमन्दरगिरिः षट्तर्कविद्यागुरुः, साहित्यामृतसिन्धुरद्भुतमतिप्रेङ्खत्पताकाञ्चितः । सूक्तैस्तस्य पवित्रितत्रिभुवनैः श्रीचित्रचिन्तामणि- * श्लोकोन्मीलितषट्प्रबन्धललितैः को नाम न प्रीणितः ? ||११|| ( शार्दूल.) नटी अपि च स्रोतोभिः क्रमशस्त्रिभिस्त्रिभुवने दृष्ट्वा विगाह्य स्थिता - मेतां स्वर्गतरङ्गिणीं हरिदिशो हारश्रियं बिभ्रतीम् । एक श्लोकपथप्रवृत्तिमभजद् यस्यास्यसारस्वतं, स्रोतः प्लावयितुं जगन्ति युगपत् कल्लोललीलायितै : ।। १२ ।। ( शार्दूल.) अथवा किं तस्य कवेर्वर्णनया ? । संसारोर्जितकर्ममर्मभिदुरश्वेतांशुबिम्बामल - ध्यानोन्मीलितबिन्दुमध्यविलसन्निःशेषदृश्वप्रभुः । लीलानिर्दलितत्रिलोकविकसत्कन्दर्पदर्पग्रहः, - * - कारुण्यावनिरेष यस्य सुगुरुः श्रीहेमचन्द्रो मुनिः || १३ || (शार्दूल.) 'अज्ज ! कधं एस कई नाडयपबंधपयट्टो पयरणं वित्थेरदि ? सूत्रधारः - प्रिये नाटकरचना हि इतिवृत्तमनुसरन्ती क्षुण्णक्षोदनमावहति । तथा हि क्षुण्णे मार्गे सूत्रयन्तः पदानि, के वाऽभूवन् नात्र यातानुयाताः । ५. एतदपि मम प्रतिबोधनं तादृशमेवेति । अपि एतस्य कवेः प्रबन्धेन रञ्जयितव्या एषा सभा । धवलयति कलाभिर्यावदिन्दुस्त्रिलोकीं, हरति तिमिरभारं भानुमानेष यावत् । अभिनवचरितार्थं नाटकं तावदेतत्, प्रथयतु जगति श्रीदेवचन्द्रस्य कीर्तिम् ॥ १ ॥ जीयाज्जैनमतान्तरिक्षतरणिः प्रज्ञाहुताशाऽरणिः, लीलोन्मुद्रितशेषभाष्यसरणिः श्रेयः सुधासारणिः) सर्वाकारपरोपकारविपणिः श्रीचित्रचिन्तामणि - श्लोकाविष्कृतकीर्तिधौतधरणिः श्रीदेवचन्द्रो गणिः ॥ २ ॥ - (- विलासवतीनाटिका- अन्ते प्रशस्तिः- पञ्चमोऽङ्कः) ६. आर्य ! कथमेष कविः नाटकप्रबन्धप्रवृत्तः प्रकरणं विस्तारयति ? | Jain Education International ७ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy