SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् नटी - अहो ! अज्जस्स अन्ना कावि उत्तिवेचित्ती, जं रनो वन्नणे वि पत्थुदपबंधत्थो वित्थरीयदि इति । (सचिन्तम्) अज्ज ! कहं इत्थ मए सुस्थिदाए वन्नियापरिग्गहो कादव्वो ? । जं मज्झ गुरू केणावि रत्तवडधारिणा मुंडियसीसेण पलोहिय देसंतरं णीदो । तत्थ गदस्स य अन्नेण धुत्ततिलएण किं पि अपुव्वं इंदजालं दंसिऊण किम्व गहिलत्तणं संपादिदं । सूत्रधारः- प्रिये ! अलमनया चिन्तया । ' विकलः स्वःस्थितचेष्टो मितवागपरिग्रहो द्विधा चित्तः । . परमस्पृहणीयोऽयं भविता तत्त्वप्रपञ्चनात्यागात् ।। ९ ॥ (आयर्या) नटी - अय्य ! एवं उवदिसंतेण तए मज्झ किं संबोहणं कदं भोदि ? जं सो परं असलाहणीयो भविस्सदि । सूत्रधारः- (विहस्य) प्रिये ! मुग्धाऽसि, उक्तस्यास्य व्याख्या इत्यवगन्तव्या, यत् - . विशिष्टकलावान् स्वर्गायावस्थितव्यापारः, मितवाग् निस्सङ्ग एकमनास्तत्त्वप्रपञ्चनया तत्त्वप्रपञ्चेन] अविमुक्तः प्रकृष्टस्पृहणीयो भविष्यति । नटी - (सानन्दम्) अव्य ! अन्नं च मे सुमरिदं, जेण सो विप्पयारिय देसंतरं णीदो तस्स वि तत्तपवंचो णाम, ता किं तस्सेव संगेण सलाहणिज्जो भविस्सदि ? | सूत्रधारः- प्रिये ! एवमपि । अन्यच्च - अनुज्झतस्तत्त्वहितोपदेशं, प्रवर्तमानस्य यथातथाऽपि । पुंसोऽभियुक्तस्य महत्यपीह, सिद्धिः खलु स्यान्ननु सम्मुखीना ।। १० ।। (उपजातिः) २. अहो ! आर्यस्य अन्या काऽपि उक्तिवैचित्री, यद् राज्ञो वर्णनेऽपि प्रस्तुतप्रबन्धार्थः विस्तीर्यते ! आर्य ! कथमत्र मया सुस्थितया वर्णिकापरिग्रहः कर्तव्यः ? । यन्मम गुरुः केनापि रक्तपटधारिणा मुण्डितशीर्षेण प्रलोभ्य देशान्तरं नीतः । तत्र गतस्य च अन्येन धूर्ततिलकेन किमपि अपूर्वमिन्द्रजालं दर्शयित्वा किमपि ग्रथिलत्वं सम्पादितम् । ३. आर्य ! एवमुपदिशता त्वया मम किं सम्बोधनं कृतं भवति ? यत् स परमश्लाघनीयो - भविष्यति । ४. आर्य ! अन्यच्च मे स्मृतम्, येन स विप्रतार्य देशान्तरं नीतः तस्यापि तत्त्वप्रपञ्चो नाम, तत् किं तस्यैव सङ्गेन श्लाघनीयो भविष्यति ? ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy