________________
चन्द्रलेखाविजयप्रकरणम्
[प्रथमोऽङ्कः
प्रचण्डदोर्दण्डकलितकोदण्डविस्तृतशिलीमुखमण्डलखण्डितशाकम्भरीश्वरकीर्तिकुसुमस्य मालवभूपालबल्लालमौलिकमलार्चितरणाङ्गणाधिदेवतस्य, आजन्मनिर्वाहितसत्यव्रततिरस्कृतकुन्तीसुतस्य, प्रत्यर्थिभूपालविलासिनीनिःश्वासपवनप्रेखोलनानवरतप्रज्वलिताद्भुतप्रतापदहनस्य, निरन्तरदानवाहिनीप्रवाहपूरप्लवमानयशोराजहंसस्य, अमन्दकीर्तिमन्दाकिनीपूरपवित्रितत्रिभुवनस्य, सर्वतोमुखप्रसरदमेयमहिमचमूचक्राक्रान्तसकलभूपालमौलिमण्डलीमुकुटमणिकिरणचूम्बितचरणनखचन्द्रस्य, श्रीकुमारपालदेवनरेन्द्रस्य परिषदा
यदद्य श्रीकुमारविहारे वामपाविस्थितश्रीमदजितनाथदेवस्य वसन्तोत्सवे त्रैविद्यस्य श्रीदेवचन्द्रमुनेः कृतिः चन्द्रलेखाविजयं नाम प्रकरणमभिनेतव्यमिति । (सचमत्कारम्) दृष्ट : क्वापि श्रुतो वा कथयत सदसि प्रेक्षकाः ! कोऽपि भूपः,
सत्ये शौर्ये च दाने शरणमितवतां रक्षणे बद्धकक्षः । एनं मुकृत्वा नरेन्द्रं समितिहठहृतारातिलक्ष्मीप्रसक्त्या, बिभ्राणं विक्रमाकं दिशि दिशि निहितप्रस्फुरत्कीर्तिहारम् ।। ६ ।।
(स्रग्धरा) अपि च - एकाकिनैव वीरेण, येनाऽर्णोराजमन्थनात् । अनात्तमन्दराऽगेण* हठालक्ष्मीः करे धृता ।। ७ ।।
(अनुष्टुप्) नटी - (सविस्मयम्) 'अज्ज ! एदस्स संपदं को नरवदी समाणो भोदि ? ।। सूत्रधारः- मुग्धे !
मान्धातृप्रमुखान् विहाय महतः षट्चक्रवर्तिप्रभूनेतस्याद्य कुमारपालनृपतेः कस्तुल्यतामञ्चति । यः कान्तैर्विजयाक्षतै रणमखप्राप्तैर्महासिद्धये, कीर्तिक्षीरभरेण वाञ्छति चरुं सिद्धं प्रतापाग्निना ।। ८ ॥
___ (शार्दूल.) * मन्दराचलेन १. आर्य ! एतस्य साम्प्रतं को नरपतिः समानो भवति ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org