SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् चिन्मयमूर्तिः परमो, ब्रह्मादिभ्योऽपि यः परः पुरुषः । अकलितकलाभिरामो, दिशतु शिवं नाभिसूनुर्वः ॥ १ ॥ (आय) अपि च - त्रिभुवनजयोद्दामभ्राम्यच्छिलीमुखशालिनः, __ कुसुमधनुषः प्रध्वंसेनाजितो विदितः प्रभुः । भवजलनिधौ मज्जविश्वं समुद्धरति स्म यः, सुभगहृदयः स श्रेयांसि द्वितीयजिनः क्रियात् ।। २ ।। (हरिणी) (नान्द्यन्ते) सूत्रधारः- (समन्तादवलोक्य) कथं प्रभातप्रारम्भः ? । तथाहि - व्योमाभोगविजृम्भिभास्वरमहःस्फारस्फुरत्केसरं, विश्वव्यापिसहस्रपादमुदितं प्राचीगुहामध्यतः । दृष्ट्वा नव्यहरिं विहङ्गमरुतैश्चीत्कारमुच्चैस्तरां, मुञ्चन्नेष निलीयते गुरुगिरिद्रोण्यां तमोवारणः ॥ ३ ॥ (शार्दूलविक्रीडितम्) अपि च - दृष्ट्वाऽन्धकारकलितं, पङ्कमग्नमिवाम्बरम् ।। अरुणेन गिरेर्मूर्ध्नि, क्षणं दधे रवे रथः ॥ ४ ॥ येनाशेषमपीदमन्धतमसं ज्योत्स्नाजलैः क्षालितं, __कामोऽनङ्गतयाऽपि येन विलसत्याकल्पमूर्वीतले । स श्रीकण्ठविभूषणं शशधरः शृङ्गारलीलागृहं, धत्ते राजतदर्पणश्रियमयं प्रातः प्रतीच्यां दिशि ।। ५ ।। इति । (शार्दूलविक्रीडितम्) (नेपथ्याभिमुखम्) आर्ये ! इतस्तावत् । (प्रविश्य) नटी - 'आणवेदु अज्जो । सूत्रधारः- आदिष्टोऽस्मि सततार्चिततरुणरोहिणीरमणचूडामणिधरणप्रसादसमासा दितोत्कटप्रतापालद्धृतराज्यकमलाविलाससदनस्य, समराजिरविजृम्भमाण१. आज्ञापयतु आर्यः । (अनुष्टुप) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy