SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः] ध्वान्तस्तोमैः सकलककुभां सन्निरुद्धेऽवकाशे शङ्के कष्टं व्रजति रजनी कल्पकल्पा कृशाङ्ग्याः || १६ || -- अन्यच्च नक्तंदिनं विषमबाणशरप्रहार दाहज्वरव्यतिकरज्वलिताङ्गलेखा । सा जीवितं कलयति क्षणलब्धसौख्या संकल्पकल्पितभवन्नवसङ्गमेन ॥ १७ ॥ (वसन्ततिलका) विजयेन्द्र:- (सचिन्तम् ) कियन्तं कालमवलम्बयति संकल्पदर्शनम् । धिक् धिक्मां पराधीनवृत्तिं यदद्यापि तां न प्रतिगृह्णामि । चन्द्रिके ! कथय कथय यद् वस्तु तापोपशमाय तस्या, यद् वस्तु नक्तंदिननिर्गमाय । यद् वस्तु तद्व्याधिविखण्डनाय यद् वस्तु हर्षप्रतिवर्द्धनाय ॥ १८ ॥ (उपजातिः) - [ चन्द्रलेखाविजयप्रकरणम् चन्द्रिका - यदि मां पृच्छसि तदा त्वत्सङ्गम एव तद् वस्तु, यत्रासक्ता नान्यानि वस्तून्यपेक्षते । तथाहि वेगाद्वियोगदहनज्वलिताङ्गलेखो, गृह्णाति स्म सखीजनस्य वचनैस्ताम्बूलमुद्वेजिता किञ्चिन्न स्मरति स रात्रिमखिलां त्वां द्रष्टुमुत्कण्ठिता । पाणी नागलतादलप्रणयिनि स्थास्नौ तथैवानने श्रीखण्डप्लुतपूगफालिकलिते कं कं न साऽपीडयत् ।। १९ ।। ( शार्दूल . ) अन्यच्च चन्द्रातपकदर्थिताङ्गी सोन्मादा मां प्रति यद्वदति तदप्यवधीयताम् । दूरे कुरुष्व शशिनः सखि ! रोहिणीं तां, या जीवितव्यतुलनां कलयत्यमुष्य । जानात्यसावपि यथा परदुःखभारम् || २० | Jain Education International ( मन्दाक्रान्ता) ७२ अथवा एनमेव कुरु दूरवर्त्तिनं सन्निवेश्य गिरिगह्वरे क्वचित् । वेत्तु दुःखमपरार्त्तिशीतलः शीतदीधितिवधूजनश्चिरात् ॥ २१ ॥ आहोश्वित् For Private & Personal Use Only (वसन्ततिलका) ( रथोद्धता) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy