SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [चतुर्थोऽङ्कः तन्मुहूर्तमस्यामेव द्राक्षामण्डपतलान्तः स्थितहिमशिलायामुपविश्य एवं तापमुपशमयामि इहैव मित्रेण । ( प्रवेशं नाटयति सुहृदुपनीतशिशिराद्युपचारमनुभूय) कुकूलतितरां तनौ मृदुमृणालिनीसंस्तरः स्फुलिङ्गति समन्ततः शिशिरशीकराडम्बरः । हलाहलति चन्दनं शबलमेणनाभीर र्दवानलति शीतलाप्यहह सान्द्रचन्द्रद्युतिः ॥ १४ ॥ चन्द्रलेखाविजयप्रकरणम् ] (तथैव चन्द्रातपव्यथां नाटयन्) वैवर्ण्यं तनुते यदेतदुचितं दृष्टाऽपि कस्तूरिका सन्तापं तपनप्रिया कमलिनी दत्ते च तत्सम्मतम् । वैकल्यं बकुलः करोतु मधुना पूर्णोऽस्य यद्दोहदः स्वं धात्वर्थमतीत्य निर्दहति मां यच्चन्द्रिकेत्यद्भुतम् ॥ १५ ॥ - चन्द्रिका - अवधारय । [ततः प्रविशति चन्द्रिका] चन्द्रिका - कः कोऽत्र भोः ? निवेद्यताम् ब्रह्मवीराय विजयेन्द्राय यत् राज्ञ्याः श्रीचन्द्रलेखाया उपलब्धि गृहीत्वा वैताढ्यगिरेरुपेता चन्द्रिका द्वारि तिष्ठति । तत्त्वप्रपञ्चनः- ( श्रुत्वा सविस्मयं स्वगतम्) साधु संवृत्तमनयोपलब्ध्या अवश्यं यास्यति स्वास्थ्यमसौ । ( त्वरितपदं निष्क्रम्य चन्द्रिकां हस्ते गृहीत्वा प्रविश्य) ब्रह्मन् ! चन्द्रिकेयं प्रणमति तदनुगृह्यतां दृष्ट्या । विजयेन्द्रः- (निरीक्ष्योपलक्ष्य सहर्षम् ) अयि चन्द्रिके ! जीवति प्रिया ? चन्द्रिका - (सविश्वासम् ) जीवति जीवति । विजयेन्द्रः- (औत्सुक्यं नाटयन्) कथमित्थं तापयसे माम् ? इयत्कालं यावत् यदि त्वत्संधारणया जीविता तदवश्यं जीविष्यत्येव सर्वं परित्यज्य तत्रायातमेव मां विद्धि, परं कथयतु भवती मयि प्रणयं विधाय कथं कथं गमयति दिनं कथं च रजनीम् । लीलागारे लिखितमसकुच्चित्रभित्तौ भवन्तं सा पश्यन्ती गमयति दिनं विस्मृतत्वद्वियोगा । Jain Education International ७१ (पृथ्वी) ( शार्दूलविक्रीडित) For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy