SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् विजयेन्द्रः- (सानन्दं सविस्मयं च) कः पु प्र० (१३३ तमं पृष्ठं त्रुटितमस्ति ।) ........ स्ते रामचन्द्रप्रमुखा नरेन्द्राः ।। ९ ॥ विजयेन्द्रः- (स्वगतम्) न कोऽपि गुरूणामहमिव प्रसादपात्रम् । य एवमभितोऽ नुगृहीतः (प्रकाशम्) वयस्य ! साऽपि पुत्रान्तिकमलङ्करोति । तत्त्वप्रपञ्चनः- अथ किम् । (नेपथ्ये) 'मा पत्तिज्ज नराणं, अणुराए अवररत्तचित्ताणं । अइरत्तो वि दिणेसो पिच्छ तुमं दिणसिरिं मुयइ ॥ १०॥ (गीति) तत्रैव - १२कित्तियकालं कुसलं गरुयाण वि परधणेसु लुद्धाणं । दियरायस्स वसूणं हरणे हरिणो वि किं(नु) फलं[जादं] ।।११।। (आया) विजयेन्द्रः- (कथं प्रदोषसमयः ? प्रियानुस्मरणनाटितकेन तत्त्वप्रपञ्चनं प्रति) अवधारयतु भवान् किञ्चिन्मदुक्तम् । गुरुप्रसादात् पुत्रकलत्रसङ्गमेऽपि जाते तां विना किं सुखमस्माकम् । नूनमीदृशप्रदोषसमयरजनीप्रभृति विकटकालगहननिपतिता त्यक्ष्यति वराकी सा प्राणान् । अथवा - तनयस्य च पल्याश्च, सङ्गमेऽपि सुखाय सा । संसारफललुब्धस्य, यथाऽर्थो धर्मकामयोः ।। १२ ।। ततःक्षणमपि तां विना नैव जीवितं धर्तुमुत्सहे । (उदितमिन्दुमवलोक्य विरहकातर्यं नाटयन्) कामः पञ्चशरः किलेति वितथं ताराप्रसूनार्चिते ___ व्योमान्तः खुरलीतले रतिपतेः खेलिष्यतः श्यामया । यत्सेवापरया लसच्छरशतैः सेवाप्रपञ्चांचित - प्रालेयांशुमिषादिदं प्रगुणितं नाराचयन्त्रं पुरः ।। १३ ।। (शार्दूलविक्रीडित) ११. मा प्रतीयात् नराणामनुरागानपररक्तचित्तानाम् ।। अतिरक्तोऽपि दिनेशः पश्य तां दिनश्रियं मुञ्चति ।। १२. कियन्तं कालं कुशलं गुरुकाणामपि परधनेषु लुब्धानाम् । द्विजराजस्य 'वसूनां हरणात् हरेरपि किं फलं जातम् ॥ १. वसु = तेज २. हरि = सूर्य ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy